2023-03-12 05:00:59 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
ज्ञानेऽतिव्याप्तेः । सांख्ययोगेऽपि अन्तश्चित्तस्य बहिर्विषयैः सह सम्बन्धार्थ
चित्तवृत्तिरङ्गीक्रियते । यथा - इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया
सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।
फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः (पा० यो० सू० ७ व्या० भा०) । सांख्ययोगे
प्रत्यक्षप्रमायां पञ्चपदार्था अपेक्ष्यन्ते प्रमाणम्, प्रमाप्रमाणम्, प्रमा, प्रमाता, साक्षी
च । पौरुषेयबोधः प्रमा, (फलम्) । प्रमाकारणभूता अयं घट इति बुद्धिवृत्तिप्रमा-
प्रमाणम् । बुद्धिप्रतिबिम्बितं चेतनं प्रमाया आश्रयभूतं प्रमाता । बुद्धिवृत्तिप्रमायाः
कारणभूतानीन्द्रियाणि प्रमाणम् । बुद्धिवृत्त्युपहितं शुद्धं चेतनं साक्षि । अद्वैतवेदान्ते
सांख्ययोगे च उभयत्रापि - इन्द्रियद्वारा यत्र बुद्धिवृत्तिरुदेति तत्र प्रत्यक्षप्रमाणम्
यत्र लिङ्गद्वारा बुद्धिवृत्तिरुदेति तत्रानुमानप्रमाणम् । पदज्ञानद्वारा यत्र बुद्धिवृत्तिरुदेति
तत्रागमप्रमाणम् । न्यायमते यज्ज्ञानम् । (अयं घट इत्यादिज्ञानम्) व्यवसायज्ञानं तदेव
सांख्ययोगे बुद्धिबोधः प्रमाणम् । यच्च घटमहं जानामीति ज्ञानं न्यायमतेऽ
नुव्यवसायस्तदेवात्र पौरुषेयबोधः । न्यायवैशेषिकमते - विषयाः इन्द्रियैः संयुज्यन्ते
इन्द्रियाणि मनसा, मनः आत्मना सह युज्यन्ते तथा प्रत्यक्षज्ञानम् । इन्द्रियार्थ-
सन्निकर्षजन्यं प्रत्यक्षमिति लक्षणम् । एवमेव अनुमानादिज्ञाने ।
1
२०५
-
ज्ञानबलक्रिया - ईश्वरस्य स्वातन्त्र्येण प्रवृत्यादि । यथा- ईश्वरस्य स्वरूपभूतं
यज्ज्ञानं तस्य बलं स्वातन्त्र्याख्यं तेन ज्ञानबलेन क्रिया प्रवृत्त्यादिलक्षणा यस्याः सा
(सं० शा० ३/१८४ अ० टी०) । यथा च ज्ञानमेव बलं क्रिया च तदनुग्रहादेवेति
(तत्रैव सु० टी० ) ।
-
ज्ञानयोगः – ज्ञानमेव योगः ब्रह्मसायुज्यकारणम् । यथा युज्यते ब्रह्मानेनेति
योगः ज्ञानमेव योगः ज्ञानयोगः (गी० ३।३ भा०) । यथा च प्रवृत्त्या लक्ष्यते ज्ञायते
कर्मयोगो निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः (गी० ४ । १ आ० गि०) । निवृत्त्या
लक्ष्यते ज्ञानयोग इति विभागः (तत्रैव आ० गि०) ।
ज्ञानलक्षणा प्रत्यासत्तिः - ज्ञानलक्षणासन्निकर्षः । इदमत्रावधेयं प्रत्यक्षं द्विविधं
लौकिकमलौकिकं च । संयोगसमवायादिषड्विधसन्निकर्षजन्यं प्रत्यक्षं लौकिकम् ।
अलौकिकसन्निकर्षजन्यं प्रत्यक्षमलौकिकम् । अलौकिकसन्निकर्षश्च त्रिविधः-
सामान्यलक्षणाप्रत्यासत्तिः ज्ञानलक्षणाप्रत्यासत्तिः योगजलक्षणाप्रत्यासत्तिश्च । तत्र
सामान्यमेव लक्षणं यस्याः इति व्युत्पत्तिः । तेन विशेष्यतासम्बन्धेन घटप्रत्यक्षं प्रति