This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
वाक्यमनुस्मृत्य जीवब्रह्मणोर्भेदमङ्गीकृत्य कर्मणा ज्ञानेन च परमपुरुषार्थं समर्थयति ।

श्री बल्लभाचार्यश्च ब्रह्मसूत्रस्य स्वीये अणुभाष्ये औपनिषदं ज्ञानं विना कर्म कर्मैव

न भवति अपि तु कर्माभासं भवतीति प्रतिपादयति । यथा - औपनिषदज्ञानस्यापि

कर्मोपयोगित्वं यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्य्यवत्तरं भवति ।

अत एव ब्रह्मविदामेव जनकादीनां कर्मणि संर्वदैव सान्निध्यम्, अन्यथा आभासत्वमेव

(ब्र० सू० १/१/१ अणुभाष्ये) ।
 
२०४
 

 
ज्ञानतपः , ज्ञानतप
आत्मचिन्तनम् । यथा - ज्ञानतपसा ज्ञानमेव च परमात्मविषयं

तपस्तेन ज्ञानतपसा (गी० ४।१० शा० भा०) । यथा च ज्ञानतपसा ज्ञानमयं तपः

आलोचनं मम जन्मकर्मणोः स्वरूपस्य च निरन्तरं चिन्तनम् - यस्य ज्ञानमयं तप इति

श्रुतिप्रसिद्धं ज्ञानतपस्तेन (तत्रैव नी० क०) ।
 
-
 
-
 

 
ज्ञानदीपः - , ज्ञानदीप
विवेकरूपः प्रकाशः । यथा- ज्ञानदीपेन विवेकप्रत्ययरूपेण

भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्-

प्रज्ञावर्त्तिना विरक्तान्त:करणाधारेण विषयव्यावृत्तचित्तरागद्वेषकलुषितनिवाता-

पवारकस्थेन नित्यप्रवृत्तैकाग्ग्रध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन इत्यर्थः

(गी० १०/११ भा०) । यथा च ज्ञानरूपेण दीपेन (तत्रैव नी० क० ) । यथा - (ज्ञानम्)

विवेकज्ञानम् (गी० ३।४० श्रीधर्याम्) ।
 
-
 

 
ज्ञानप्रक्रिया - , ज्ञानप्रक्रिया
अद्वैतवेदान्ते विषयावच्छिन्नचैतन्यस्य प्रमाणचैतन्येन सह

अभेदस्तथा घटादिविषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य चाभेदः । अन्तःकरण -

वृत्तिद्वारा विषयावच्छिन्नचैतन्यप्रमाणचैतन्ययोरभेदो जायते । वृत्तिश्च – यथा तत्र यथा

तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं

भवति । तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयप्रदेशं गत्वा

घटादिविषयाकारेण परिणमते स एव परिणामो वृत्तिरित्युच्यते (वे० प० १ प० ) ।

अत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाण-

चैतन्यम् । अन्तःकरणाच्छिन्नं चैतन्यं च प्रमातृचैतन्यम् । ज्ञानगतप्रत्यक्षत्वम्,

विषयगतप्रत्यक्षत्वं द्वे च भवतः । ज्ञानगतप्रत्यक्षत्वस्य प्रयोजकं विषयावच्छिन्न-

चैतन्यस्य प्रमाणचैतन्यस्य च अभेदः । विषयगतप्रत्यक्षत्वस्य प्रयोजकं घटादिविषया-

वच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य चाभेदः । अनेन इन्द्रियजन्यज्ञानविषयस्य

विषयप्रत्यक्षत्वमिति नैयायिकलक्षणं निरस्तम् । मनोरूपेन्द्रियजन्यतया अनुमिति-