This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
एतन्मतमुपन्यस्य निरस्तम् । यथा- एवमुपसंहृते केचित् स्वसम्प्रदायबलावष्टम्भादाहुः

यदेतद् वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तत्रैव स्वोत्पत्तिमात्रेण अज्ञानं

निरस्यति । किं तर्हि अहन्यहनि द्राघीयसा कालेन उपासीनस्य सतः भावनोपचयात्

निःशेषमज्ञानमपगच्छति देवो भूत्वा देवानप्येति इति श्रुतेः (नै० सि० १।६७) ।

अत्र ज्ञानामृतविरचितविद्यासुरभिटीकायां केचित् इत्यनेन श्रीब्रह्मदत्तो गृहीत

इति स्पष्टीकृतम् । उपरितननैष्कर्म्यसिद्धिवाक्यस्यार्थं चन्द्रिकाटीकायां श्रीज्ञानोत्तम

एवं स्पष्टयति - वाक्यजन्यज्ञानोत्तरकालीनभावनोत्कर्षाद् भावनाजन्यसाक्षात्कार-

लक्षणज्ञानान्तरेणैव अज्ञानस्य निवृत्तिः । ज्ञानाभ्यासदशायां ज्ञानस्य कर्मणा

समुच्चयोपपत्तिरित्येकदेशिनां मतमुत्त्थाय निराकरोति- एवमुपसंहृत इत्यादिना ।

भेदाभेदवादी श्रीभर्तृप्रपञ्चोऽपि ज्ञानकर्मसमुच्चयवाद्यासीदिति बृ० आ० उ० भा०

वा० १।४।४९० इत्यनेन तथा ब्र० सू० २/१/१४ शा० भा० अवगम्यते । आचार्य-

मण्डनमिश्रः प्रसंख्यानपक्षमङ्गीकृत्य ज्ञानकर्मसमुच्चयपक्षं स्वीकरोति। (प्रसंख्यानम्,

भावना, उपासना,आवृत्तिः, आम्रेडितमेतत्सर्वं समानार्थकम् । भेदाभेदवादी आश्मरथ्याचार्यः

आचार्य औडुलोमिश्च ज्ञानकर्मसमुच्चयं मन्येते । विज्ञानामृतभाष्यकर्ता विज्ञान-

भिक्षुर्मङ्गलाचरणश्लोकेन निर्जित्य ज्ञानकर्मभ्यां यान्तु श्रीमद्गुरोः पदमित्यनेनात्मानं

ज्ञानकर्मपक्षपातिनमसूचयंत् । एवमेव द्वैताद्वैतवादी निम्बार्काचार्यस्तथा भेदाभेदवादी

श्रीयादवाचार्योऽपि । विशिष्टाद्वैतवादिश्रीश्रीकण्ठाचार्यनिर्मिते ब्रह्मसूत्रभाष्ये-
-

विद्यां चाविद्यां च यस्तद्वेदोभय .....सह तेनैति ब्रह्मवित् पुण्यकृच्च सत्येन लभ्यस्तपसा

ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यमित्यादिना ज्ञानकर्मसमुच्चयवादिनी श्रुतिरुपलभ्यते

(ब्र० सू०१।१।१ ) । अत्र व्याख्यानं कुर्वता श्रीमदप्ययदीक्षितेन लिखितम्- यदुपरितन-

पङ्क्तिभिः ज्ञानकर्मसमुच्चयपक्ष एव श्रुतिभ्यां प्रतिपादितमिति ज्ञानकर्मणोः

समुच्चये प्रमाणमुपन्यस्यते । विवरणप्रमेयसंग्रहे प्रथमवर्णक लिखितं यद् भास्कराचार्यः

ज्ञानकर्मसमुच्चयवादी स उपेक्षणीयः इति । विशिष्टाद्वैतिभास्कराचार्येण स्वीये

ब्रह्मसूत्रभाष्ये सर्वापेक्षाच्च यज्ञादिश्रुतेरश्नवदिति सूत्रमुपन्यस्य ज्ञानकर्मसमुच्चयपक्षः

समर्थितः। नारायणविशिष्टाद्वैतवादी श्रीरामानुजाचार्यः ब्रह्मसूत्रे 91919 श्रीभाष्ये

ज्ञानकर्मसमुच्चयपक्षमित्थं समर्थितवान् - तदपेक्षितं च कर्मविज्ञानमेव । कर्मसमुच्चिताद्

ज्ञानादपवर्गश्रुतेः । वक्ष्यति च सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति । अपेक्षिते च

कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातम् । अतस्तदेव पूर्ववृतम् ।

श्रीश्रीपतिराचार्यः स्वीये ब्रह्मसूत्रश्रीकरभाष्ये द्वा सुपर्णा सयुजा सखाया इति श्रुति-
****
 
-
 
२०३