This page has not been fully proofread.

२०२
 
वगतानि । ततश्च आत्मानुभवकामो यज्ञादीन्यनुतिष्ठेदिति विधिः परिणम्यते
(प०प०वि० ३ व०) । यथा च - ननु विशुद्धिद्वारेण ज्ञानहेतुत्वे संस्कारविवदिषापक्षयोः
को विशेषः । उच्यते - श्रवणमननध्यानाभ्यासादिसहकारिकारणसम्पत्तावेव संस्कारो
विज्ञानं साधयति, तदभावे तु अभ्युदयमेव । विवदिषायां तु विज्ञानस्य कर्मफलत्वात्
फलपर्यन्तं साधनानि सम्पाद्यापि विज्ञानं जनयन्तीति विशेष: (प० पा० वि० ३ व०) ।
एवमेव विवरणकारश्रीप्रकाशात्मस्वामिना शारीरकन्यायसंग्रहे सवपिक्षाधिकरणे-
यज्ञेन विवदिषन्तीति कर्मणा ज्ञानसाधनन्वं विधीयत इत्युक्तम् । अद्वैतवेदान्तिषु
आचार्यब्रह्मदत्तो ज्ञानकर्मसमुच्चयमङ्गीकरोति । स एवमभिप्रैति यद् यथा कर्मकाण्डभागो
विधिप्रधानस्तथैव ज्ञानकाण्डभागोऽपि विधिप्रधानः । किन्तु कर्मकाण्डभागे कर्मविधिरत्र
ज्ञानकाण्डे उपासनाविधिरिति भेदः । तेनात्र तत्त्वमसि इत्यादिवाक्यानां न प्राधान्यं
किन्तु आत्मा वा अरे इत्यादिविधिवाक्यानामेव प्राधान्यम् । वस्तुस्वरूपविज्ञानं विना
भावना न भवितुमर्हति । भावना उपासना प्रसंख्यानं च एकमेव तत्त्वम् । अतो
ब्रह्मस्वरूपावबोधकैस्तत्वमसि - इत्यादिवाक्यैर्वह्मस्वरूपबोधानन्तरम् आत्मा वा अरे
इत्यादिवाक्यैर्भावना क्रियते । तेन तत्त्वमस्यादिवाक्यं केवलं ब्रह्मस्वरूपमात्रबोधकम-
ज्ञाननिवृत्तिश्च भावनाजन्येन ज्ञानेनैव । अत आत्मा भावनाविधेयः । श्रीब्रह्मदत्त-
स्यैतन्मतं भगवता श्रीशङ्कराचार्येण इत्थमभ्यधायि- अपरे वर्णयन्ति उपासनेन
आत्मविषयं विशिष्टं विज्ञानान्तरं भावयेत् तेनात्मा ज्ञायते । अविद्यानिवर्तकं च तदेव;
नात्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि विज्ञाय प्रज्ञां
कुर्वीत द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्य स विजिज्ञासितव्य
इत्यादीनि (बृ० आ० उ० १/७१ शा० भा०) । एतदुपरितनं मतं खण्डयन्
भगवत्पादश्रीशङ्कराचार्यः कथयति- न अर्थान्तराभावात् । न च आत्मेत्येवोपासीत
इत्यपूर्वविधिः। कस्मात् आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यति-
रेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यं यत्र
विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते । यथा दर्शपूर्णमा-
साभ्यां स्वर्गकामो यजेत इत्यादौ (बृ० आ० उ० १।४।७ शा० भा०) । बृहदारण्यकभाष्य-
वार्त्तिकेऽपि एतन्निरस्तम् । यथा- नियोगपक्षमाश्रित्य विध्यर्थासम्भवो यथा ।
ऐकाम्यसिद्धौ यत्नेन तथात्र प्रतिपाद्यते (वृ० आ० उ० भा० सम्बन्धवा० ७९७)।
अत्र आनन्दगिरिः स्पष्टयति- इह तु ब्रह्मदत्तादिमतेन ज्ञानाभ्यासे विधिमाशङ्क्य
निरस्यते तन्न पुनरुक्तिरित्याह- नियोगेनेति । श्रीसुरेश्वराचार्येणापि नैष्कर्म्यसिद्धौ
 
शाङ्करवेदान्तकोशः
 
-
 
-