This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
२०१
 
(त० ३) तत्छ्रुतेः (त० ४) समन्वारम्भणात् (त० ५) तद्वतो विधानात् (त० ६)

नियमाच्च (७) इति सूत्रैः पूर्वोक्तस्य शेषत्वात् पुरुषार्थवादः (ब्र० सू० ३/४/२)

इत्यस्य व्याख्याने कृत्वा परमपुरुषार्थे विद्यायाः (ज्ञानस्य) न स्वातन्त्र्यमिति स्थूणानि -

खननन्यायेन प्रतिपाद्य अधिकोपदेशात्तु बादरायणस्यैवं दर्शनात् (ब्र० सू० ३/४/८)

तुल्ये तु तद्दर्शनम् (त० ९) असार्वत्रिकी (त० १०) विभागः शतवत् (त० ११)

अध्ययनमात्रवतः (त० १२) नाविशेषात् (त० १३) स्तुतयेऽनुमतिर्वा (त० १४)

कामकारेण चैके (त० १५) उपमर्दं च (त० १६) उर्ध्वरेतःसु च· शब्दे हि (त० १७)

इति सूत्रभाष्येषु कर्मासहकृतायाः केवलाया एव विद्यायाः परमपुरुषार्थहेतुत्वमाचार्य-

शङ्करेण प्रसाधितम् - उक्तं च - वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं

प्रत्याशासानस्य कर्माधिकारोच्छितिरेव प्रसज्येत तस्मादपि स्वातन्त्र्यं विद्यायाः

(ब्र० सू० ३/४/१६ शा० भा०) । एवमेव तस्मादपि स्वातन्त्र्यं विद्यायाः (ब्र० सू०

३।४।१७ शा० भा०) । यथा च - ईश्वरस्वरूपापरिज्ञानाद् बन्धस् तत्स्वरूपपरि-

ज्ञानान्मोक्षः । (ब्र० सू० ३/२/५ शा० भा०) बृहदारण्यकोपनिषदः श्रीमद्भगवद्-

गीतायाश्च शाङ्करभाष्ये केवलं विद्याया एव मोक्षसाधनत्वमिति विशदं वर्णितम् ।

भामतीप्रस्थाने कर्मणः प्रयोजनं विवदिषा इति निरूपितम् । यथा- तमेतमात्मानं

वेदानुवचनेन नित्यस्वाध्यायेन ब्राह्मणा विवदिषन्ति वेदितुमिच्छन्ति न तु विदन्ति ।

वस्तुतः प्रधानस्यापि वेदस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् । इच्छायाश्च प्रत्ययार्थतया

प्राधान्यात् प्रधानेन च कार्यसम्प्रत्ययात् । नहि राजपुरुषमानय इत्युक्ते वस्तुतः

प्रधानोऽपि राजा पुरुषविशेषणतया शब्दत उपसर्जनः प्रतीयते अपि तु पुरुष एव

शब्दतस्तस्य प्राधान्यात् । उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विवदिषोत्पादनद्वारा

विवदिषन्ति यज्ञेन इति श्रुतेः (ब्र० सू० 9 19 19 भाम०) । एवमेव प्रत्ययार्थप्राधान्यं

विवदिषार्थत्वं च ब्र० सू० ३ । ३४ तथा ३ । ४ । ६ भामत्यामुक्तम् । विवरणप्रस्थाने कर्मणः

प्रयोजनं विद्येति प्रतिपादितम् । यथा - अवान्तरवाक्यभेदेन विवदिषन्ति इति यज्ञादीनां

ज्ञानसंयोगविधानात् (प० पा० वि० १ वर्णके) । यथा च - सर्वाण्येव कर्माणि

उत्पत्तिविधिविहितानि संयोगभेदेन जीवनकामनाधधिकार विध्यन्तरवद् ब्रह्मानुभवकामो

यज्ञादीनि अनुतिष्ठेत् इत्यधिकारान्तरविधिविधेयानि भविष्यन्तीत्याह- यज्ञेन

दानेनेत्यादिना । आत्मतत्त्वापरोक्षानुभवस्तावदिष्यमाणतया स्वर्गादिना भावना-

साध्योऽवगम्यते पुरुषार्थत्वात् । ... तच्च यज्ञादीनामिच्छोपसर्जनतयाऽऽख्याताभिहित-

भावनाकरतया अवगतानां साध्येनैव अन्वयाद् यज्ञादीनि ब्रह्मानुभवसाधनान्य-
-