This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
करणस्य परिणामात्मिका वृत्तिः कथमुदेत्येतदर्थं वेदान्तपरिभाषाप्रत्यक्षपरिच्छेदे

द्रष्टव्यम् । ८. सांख्यास्तु महत्तत्त्वापरपर्यायस्य बुद्धितत्त्वस्य परिणामविशेषो ज्ञानम् ।

अर्थात् अर्थाकारेण परिणताया बुद्धिवृत्तेश्चेतने प्रतिबिम्बनाद् विषयप्रकाशरूपं ज्ञानम् ।

तत्र पौरुषेयबोधे वृत्तिः करणं तथा वृत्तिरूपज्ञाने इन्द्रियाणि करणम् । योगविदस्तु

बुद्धिवृत्तिनिरोधरूपो योगो ज्ञानम् । विज्ञानवादिबौद्धमते बाह्यार्थाभावाद् बुद्धिरेव

अर्थाकारेण

ज्ञानम् । ९. न्यायवैशेषिकमते- सर्वव्यवहारहेतुर्गुणो

बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं

ज्ञानमनुभवः । स द्विविधः- यथार्थोऽयथार्थश्च । तवति तप्रकारकोऽनुभवो यथार्थः ।

सैव प्रममेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः सैवाप्रमेत्युच्यते ।

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् (त० सं० ) । १०. रामानुजीयास्तु -

ध्यानोपासनादिशब्दवाच्यं वेदनं ज्ञानम् (स० द० सं० रामा० ) ।११. ज्योतिः यथा -

ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् । प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः ।

तदेवामृतमविनाशात्मकत्वात् (बृ० उप० १।३।२८ शा० भा०) ।
 
२००.
 
-
 

 
ज्ञानकर्मसमुच्चयः - , ज्ञानकर्मसमुच्चय
परमपुरुषार्थस्य मोक्षस्य साधनं केवलं ज्ञानमथवा

कर्मसमुच्चितं ज्ञानमित्यत्र आचार्याणां मतभेदः । शाङ्कराद्वैतिनो मोक्षसाधनं केवलं

ज्ञानमिति मन्यन्ते । कर्मणा चान्तःकरणं शुद्धं सज्ज्ञानोपयोगि जायते तथा कर्मणा

ब्रह्मजिज्ञासोत्पद्यते । ब्रह्मसाक्षात्कारे जाते सर्वं मिथ्येति विवेके उदिते कर्मणि न

प्रवृतिरिति न ज्ञानकर्मसमुच्चय इति तेषां मतम् । अपरेऽनेके पुनः ज्ञानस्य कर्मणश्च

समुच्चयः साहित्यं सहभावेन आश्रयणं मोक्षसाधनमिति स्वीकुर्वन्ति । ब्रह्मसूत्रे

तृतीयाध्यायचतुर्थपादे एतत् सर्वं विमृष्टम् । पुरुषार्थोऽतः शब्दादिति बादरायणः

(ब्र० सू० ३।४।१) इत्यत्र यथा- अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात्

पुरुषार्थः सिद्ध्यतीति बादरायण आचार्यो मन्यते । कुत एतदवगम्यते - शब्दादित्याह ।

तथा हि तरति शोकमात्मवित् (छा० ७।१।३) स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव

भवति (मु० ३।२।९) । ब्रह्मविदाप्नोति परम् (छा० ६।१४ । २) इति य आत्मापहतपाप्मा

(छा० ८।७।१ ) इत्युपक्रम्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य

विजानाति (छा० ८।७।१ ) इति । आत्मा वा अरे द्रष्टव्यः (बृ० ४।५।६) इत्युपक्रम्य

एतावदरे खल्वमृतत्वम् (बृ० ४/५/१५) इत्येवं जातीयका श्रुतिः केवलाया विद्यायाः

पुरुषार्थहेतुत्वं श्रावयति (ब्र० सू० ३।४।१ शा० भा०) । अस्मिन्नधिकरणे -

शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनि: (ब्र० सू० १।४।२) आचारदर्शनात्
 
-
 
-