This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
-
 
आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा (तत्रैव श्रीधरी) । २. बुद्धिः - ज्ञानं
शास्त्रोपदेशजा बुद्धिः (गी० ६।८ नी० क०) । ३. पदार्थबोध:- ज्ञानं ज्ञाप्तिरर्थ-
परिच्छितिः (गी० २।१ आ० टी०) । ४. आत्मनः शक्तिः- यथात्मा वेद्यं घटादिकं
स्वं चावगतिसमर्थज्ञानाख्यगुणयोगात् साधयति । आत्मकार्यव्यवहारसहकारित्वाज्ज्ञानं
शक्तिरित्युक्तम् (सं० शा० २।५४ सु० टी०) । ५. ब्रह्म तद्विषयं प्रमाणज्ञानं वा-
ज्ञानं ब्रह्मचैतन्यं तद्विषयं वा प्रमाणज्ञानम् ( गी० ९।१ आ० गि०) । यथा च-
ज्ञानं ज्ञप्तिमात्रस्वरूपं ब्रह्म (तत्रैव नी० क०) । यथा च - ज्ञानं शब्दप्रमाणकं ब्रह्मतत्त्व-
विषयकं ते तुभ्यं प्रवक्ष्यामि (तत्रैव म० सू०) । यथा च यत्तु इदं वक्ष्यमाणं तु
पूर्वस्माद् ध्येयाद् विलक्षणं ज्ञेयं ज्ञानं ज्ञप्तिमात्रस्वरूपं ब्रह्म (तत्रैव भाष्यो०) । यथा
च - तस्माद्वा एतस्माद् विज्ञानमयात् । अन्योऽन्यतर आत्मानन्दमयः (तै० २।५ इति)
तत्र संशयः किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यठप्रकृतम् सत्यं ज्ञानमनन्तम्
(तै० २।१० इति) । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय
इत्यर्थः । न च शरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । ...पर एवानन्दमयो
भवितुमर्हति । कुतः अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते
( ब्र० सू० १/१/१२ शा० भा० ) । यथा च तच्च मद्विषयं ज्ञानं ते तुभ्यमहं
सविज्ञानं विज्ञानसहितं स्वानुभवसंयुक्तं वक्ष्यामि कथयिष्याम्यशेषतः कार्येन
(गी० ७।२ शा० भा०) । इदमपरोक्षं ज्ञानं चैतन्यम् (तत्रैव नी० क०) । इदं मद्विषयं
स्वतोऽपरोक्षं ज्ञानमसम्भावनादिप्रतिबन्धेन फलमजनयत् परोक्षमित्युपचर्यते (तत्रैव
म० सू०) । ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम् । इदं मद्विषयम् (तत्रैव श्रीधरी ) ।
६. ब्रह्मज्ञानं मानसी क्रिया न । यथा - ननु ज्ञानं नाम मानसी क्रिया । न । वैलक्षण्यात् ।
क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षेणैव चोद्यते पुरुषव्यापाराधीना च
(ब्र० सू० १/१/४ शा० भा०) । यत्र विषये वस्तुस्वरूपनिरपेक्षेणैव चोद्यते । यथा
सत्यं ज्ञानं मानसी क्रिया देवतासम्प्रदानकहविग्रहणे देवतावस्तुस्वरूपानपेक्षा देवता
ध्यानक्रिया (तत्रैव भामती) । ६. गौणीवृत्त्या अन्तःकरणवृत्तिरपि ज्ञानम् । यथा -
ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः । तदुक्तं विवरणे अन्तःकरणवृत्तौ ज्ञानत्वोप-
चारादिति (वे० प० १ प०) । एवं च ज्ञानं द्विविधम् - वृत्तिरूपम्, तदवच्छिन्न-
वृत्तिप्रतिविम्बितचैतन्यरूपं च । अत्र प्रत्यक्षज्ञानमपि द्विविधम् - निर्विकल्पकं सविकल्पकं
चेति । वस्तुमात्रद्योतकं निर्विकल्पकम्, संज्ञागुणादिद्योतकं सविकल्पकम् । आदिपदेन
संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः ऊहोऽनध्यवसायः अनुभवश्च । अन्तः-
-
 
-