2023-03-21 13:24:21 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
ज्ञानशब्दवदर्थः ।
ज्ञप्तिप्रत्यक्षम्
प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इत्यद्वैतमते ।
-
ज्ञप्तिप्रत्यक्षलक्षणम्
चित्त्वम् । यथा - तत्र ज्ञप्तिगतप्रत्यक्षस्य सामान्यलक्षणं
चित्त्वमेव । पर्वतो वह्निमानित्यादावपि वह्याद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे
स्वप्रकाशतया प्रत्यक्षत्वात् (वे० प० १ प०) । इत्यद्वैतमते ।
ज्ञातता
ज्ञातत्वम् = ज्ञाते घटे चिदाभासफलोदयः । यथा - आभासहीनया
बुद्ध्या ज्ञातत्वं नैव जन्यते । तादृगूंबुद्धेर्विशेषः को मृदादेः स्याद् विकारिणः । (प०
द० ८।८) ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् । धीमात्रव्याप्तकुम्भस्य ज्ञातत्वं
नेष्यते तथा । (त० ९) ज्ञातत्वं नाम कुम्भेऽतश्चिदाभासफलोदयः । न फलं ब्रह्मचैतन्यं
मानात् प्रागपि सत्त्वतः । (त० २२) एवं च सति किं फलितमित्यत आह - घट इति ।
बाह्ये घटे यथा घटमात्रावभासकश्चिदाभासः घटस्य ज्ञाततावभासकं ब्रह्मचैतन्यं चेति
चैतन्यद्वैगुण्यं तथान्तरेऽहङ्कारादिवृत्तिष्वपि कूटस्थचैतन्यं वृत्त्यवभासकचिदाभासश्चेति
द्विगुणचैतन्यमस्ति । ततः सन्धितः सन्धिभ्यस्तत्र वृतिषु वैशद्यमधिकं दृश्यत इति शेषः
(तत्रैव रा० कृ० टी०) । २. मीमांसकभाट्टमते घटे ज्ञाते घटमहं जानामि इत्येवरूपो
ज्ञातताधर्म उदेति । ३. मीमांसकप्राभाकराणां मते- यथा- भाट्टानां हि ज्ञातताख्या
संवित् स्वप्रकाशा गुरूणां च घटादिज्ञानं तयोश्च संविदोर्व्युत्पादकम् (सं० शा० १ । २४६
सु० टी०) ।४. नैयायिकमते-घटे ज्ञाते घटविषयकज्ञानवानहमित्येवंरूपोऽनुव्यवसायो
जायते । अधिकं तु अनुव्यवसायशब्दे द्रष्टव्यम् ।
-
ज्ञानम्
१. आत्मानात्मसर्वपदार्थबोधः । यथा - ज्ञानमात्मादिपदार्थानाम-
वबोधः (गी० १०।४ शा० भा०) । ज्ञानमात्मानात्मसर्वपदार्थावबोधः । (तत्रैव म०
सू०) । यथा च - ज्ञानं शास्त्रत आचार्यतश्चात्मादिपदार्थानामवगमः (गी० १६।१ शा०
भा०) । ज्ञानं श्रवणादिजन्यम् (तत्रैव नी० क०) । ज्ञानं शास्त्रादाचार्याच्चात्मादिपदा-
र्थानामवगमः (तत्रैव भाष्यो०)। ज्ञानमात्मसाक्षात्कारः (तत्रैव म० सू० ) । ज्ञानं
भगवत्तत्त्वसाक्षात्कारः (गी० ७।२६ शा० भा०) । ज्ञानी तत्त्वज्ञानवान् (गी०६।१७
म० सू०) । ज्ञानमत्र शास्त्रार्थपाण्डित्यम् (गी० ६।४६ शा० भा०) । ज्ञानेनात्मेश्वरैक-
त्वदर्शनलक्षणेन (गी०४।४१ शा० भा०) । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवः
(गी० ६।८ श्रीधरी) । ज्ञानशास्त्रीयं विज्ञानमनुभवः (गी० ७ १२ श्रीधरी) । ज्ञानयोगे