This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
-
 
जीवाणुत्वम् - , जीवाणुत्व
जीवो ब्रह्माभिन्नः स्वत एकोऽनेको वा व्यापकोऽव्यापकश्चेति

अद्वैतवेदान्तिनां मतम् । स च मध्यमपरिमाण: नाणुपरिमाणः । इदं च

मध्यमपरिमाणत्वमौपाधिकमेव । अत्रोपाधिरन्तःकरणम् । जीवस्यान्तःकरणोपाधिकत्वात् ।

अत एव अगुष्ठमात्रः पुरुषः आराग्रमात्र इत्यादिपदमन्तःकरणपरिमाणबोधक-

त्वेनोपपद्यते । यथा - तस्य च मायोपाध्यपेक्षयैकत्वम् । अन्तःकरणोपाध्यपेक्षया च

नानत्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् । बुद्धेर्गुणेनात्मगुणेन चैव

ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः (श्वे० उ० ५/८) इत्यादौ जीवस्य बुद्धिशब्दवाच्यान्तः

करणपरिमाणोपाधिकस्य परमाणुत्वश्रवणात् (वे० प० ७ १०) यथा च - सन्तु तर्हि

अणव एवात्मानः, यदि विभुत्वे व्यवस्था न सुवचा । मैवम् आत्मनामणुत्वे कदाचित्

सर्वाङ्गीणसुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः । यदत्रार्वाचीनकल्पनम्

उत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या अणुह्येवैष आत्मा यं वा एते सिनीतः

पुण्यं च पापं च - बालाग्रशतभागस्य (श्वे० उ० ४।९) इत्यादिश्रुतिषु साक्षादणुत्व-

श्रवणेन च अणव एव जीवाः । तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेन

आश्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया न सर्वाङ्गीणसुखानुपलब्धिः । ... एवं च

जीवानामणुत्वेनासङ्करात् सुखदुःखादिव्यवस्था विभोरीश्वराद्भेदश्च । शुद्धत्वं हि

भेदस्य अंशांशिभावासहचरितत्वं वा अभेदासहचरितत्वं वा स्यात् । नाद्यः- ममैवांशो

जीवलोके (गी० १५।७) अंशो नानाव्यपदेशादिति श्रुतिस्मृतिसूत्रैर्जीवस्य ब्रह्मांशप्रति-

पादनेन ब्रह्मजीवयोर्भोगसाङ्कर्यप्रसङ्गात् ।.... तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वाणुत्व-

व्यवस्थित्यसिद्धेः। ततो भेदसिद्धिप्रत्याशा दूरादपनेया । अस्मन्मते ब्रह्मात्मैक्यपरमहा-

वाक्यानुरोधेन अवान्तरवाक्यानां नेयत्वात्स्वरूपेण जीवस्य विभुत्वं औपाधिक-

रूपेण परिच्छेदः इत्युभयश्रुत्युपपादनं भाष्यादिषु व्यक्तम् । तत्सृष्ट्वा
.........।

तदेवानुप्राविशत् (तै० उ० २।६) - गुहां प्रविष्टौ (क० उ० ३।१ ) तदणुत्वश्रुतयः

उपासनार्था दुर्ग्रहत्वाभिप्राया वा नेयाः । प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः ।

(सि० ले० सं० २ प० ) ।
 
.....
 
....
 
....
 
-
 
१९७
 
-
 

 
जीवावस्था - , जीवावस्था
जीवस्य तिस्रोऽवस्थाः प्रसिद्धा एका चतुर्थी अपि भवति-

जागरितं, स्वप्नः सुषुप्तिश्च शरीरादपसृतिश्च चतुर्थी । यथा- अतिमुग्धो नाम

यं मूर्च्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायामुच्यते-

तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा- जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी

शरीरादपसृतिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति

(ब्र० सू० ३।२।१ शा० भा०) ।
 
-
 
-