2023-03-21 14:00:27 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्कुरवेदान्तकोशः
-
उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । रूपविशिष्टो घटोऽनित्य इत्यत्र रूपं
विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः ।अयमेवोपाधि-
नैयायिकैः परिचायक इत्युच्यते । प्रकृते चान्त करणस्य जडतया विषयभासकत्वायोगेन
विषयभासकचैतन्योपाधित्वम् । अयं च जीवसाक्षी प्रत्यात्मं नाना एकत्वे मैत्रावगते
चैत्रस्याप्यनुसन्धानप्रसङ्गः । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् ।
तदुपाधिभूतमायाया एकत्वात् (वे० प० १ प०) । यथा च अथ कोऽयं साक्षी
जीवातिरेकेण व्यवह्नियते । अत्रोक्तं कूटस्थदीपे देहद्वयाधिष्ठानं कूटस्थचैतन्यं स्वावच्छे-
दकस्य देहद्वयस्य साक्षादीक्षणात् निर्विकारत्वाच्च साक्षीत्युच्यते । लोकेऽपि हि
औदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धम् ।.... तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो
अभिचाकशीति (श्वे० ३।४।६) इति कर्मफलभोक्तुर्जीवात् उदासीनप्रकाशरूपस्य
साक्षिणः पृथगाम्नातत्वाच्च । नाटकदीपेऽपि नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्
विविच्य दर्शितः ।.....कूटस्थचैतन्यात्मा साक्षी । एवं जीवाद् विवेचितोऽयं साक्षी न
ब्रह्मकोटिरपि किं त्वस्पृष्टजीवेश्वरविभागं चैतन्यमित्युक्तं कूटस्थदीपे । तत्त्वदीपि-
कायामपि ... विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् । कौमुद्यां तु एको
देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी
चेता केवलो निर्गुणश्च (श्वे० उ० ६।११) इति देवत्वादिश्रुतेः परमेश्वरस्यैव रूपभेदः
कश्चिद् जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम । तत्त्वशुद्धावपि
इत्युक्त्या अयमेव पक्षः समर्थितः । केचित्तु अविद्योपाधिको जीव एव साक्षाद्
द्रष्टृत्वात् साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् । तच्चासङ्गोदासीन-
प्रकाशरूपे जीव एव साक्षात् सम्भवति । जीवस्यान्तःकरणतादाल्यापत्त्या
कर्तृत्वाधारोपभाक्त्वेऽपि स्वयमुदासीनत्वात् । एको देव इति मन्त्रस्तु ब्रह्मणो
जीवाद्यभिप्रायेण साक्षित्वप्रतिपादकः । द्वा सुपर्णा इति (मु० उ० ३ । १ । ३) मन्त्रः
गुहाधिकरणन्यायेन जीवेश्वरोभयपरः गुहाधिकरणभाष्योदाहृतपैङ्गिरहस्यब्राह्मणव्याख्यातेन
प्रकारेण जीवान्तःकरणोभयपरो वा इति न कश्चिद्विरोध इत्याहुः । अन्ये तु सत्यं
जीव एव साक्षी न तु सर्वगतेन अविद्योपहितेन रूपेण । पुरुषान्तरान्तःकरणादीनामपि
पुरुषान्तरं प्रति स्वान्तःकरणभासकसाक्षिसंसर्गाविशेषेणप्रत्यक्षत्वापत्तेः ।... तस्मादन्तः-
करणोपधानेन जीवः साक्षी । ... अन्तःकरणविशिष्टः प्रमाता तदुपहितः साक्षी इति
भेदोपपत्तेरित्याहुः (सि० ले० सं० प्र० प० ) ।
…….