2023-03-12 05:00:57 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
१९५
जरायुजं संशोकजं संस्वेदजम् (तत्रैव भामती) । जीवजं जरायुजम् । अण्डजं हि
किञ्चिद्वृश्चिकादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिजं तु किञ्चिद् वृक्षाद्यचेतनं
पृथिव्याद्युद्भिद्य जायते । जरायुजं तु जीवतो जायते (तत्रैव वे० क०) । अण्डजमित्यादि
विभागो न युक्तः, अण्डजादीनामपि जीवजत्वादित्याशक्य यज्जीवदवस्थाज्जायते
तज्जीवजं विवक्षितम् । अण्डजादिकं तु किंचिन्मृतादेव जायते (तत्रैव क० त०) ।
-
जीवधर्मः - जीवस्य रागादिः जन्मादिबन्धनम् अस्वातन्त्र्यं च । यथा - रागादिर्बन्धन-
मस्वातन्त्र्यं दुःखमेव दुःखता प्रतिकूलवेदनीयो रजःपरिणाम इति जीवधर्माः (सं०
शा० मं० श्लो० सु० टी०) ।
जीवन्मुक्तः प्रारब्धकर्मवशात्सत्यपि देहे ब्रह्मनिष्ठो ब्रह्मसाक्षात्कारवान् ।
यथा - जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्व-
रूपाखण्डब्रह्मणि साक्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि बाधितत्वाद-
खिलबन्धरहितो ब्रह्मनिष्ठ: (वे०सा०) । यथा च प्रारब्धकर्म वेगानुरोधादेव
बाधितानुवृत्तिः सिद्ध्यति । तत्क्षये तु हेत्वभावादनारम्भे विदेहकैवल्यं भवत्येवेत्यर्थः
(सं० शा० ४/४५ सु० टी० ) । यथा च - असंमूढनिदिध्यासनस्य विजातीयप्रत्ययानन्तरित-
सजातीयप्रत्ययप्रवाहस्य परिपाकेन विपरीतभावनाख्यसम्मोहरहितः ततः सर्वप्रति-
बन्धापगमाद् ब्रह्मविद् ब्रह्मसाक्षात्कारवान् ततश्च समाधिपरिपाकेन निर्दोषे समे ब्रह्मण्येव
स्थितो नान्यत्रेति जीवन्मुक्त स्थितप्रज्ञ इत्यर्थः (गी० ५/२० म० सू०) । यथा च-
अयं व्युत्त्थानसमये मांसशोणित..... भाजनेन शरीरेण .... इन्द्रियग्रामेण ... पूर्वपूर्ववासनया
क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात्
परमार्थतो न पश्यति । यथेन्द्रजालमिदमिति ज्ञानवाँस्तदिन्द्रजालं पश्यन्नपि परमार्थ-
मिदमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादिश्रुतेः । उक्तं च-
सुषुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि
निष्क्रियश्च स आत्मविन्नान्य इतीह निश्चयः इति (वे० सा० जी० मु० प्र०) ।
-
8-
जीवन्मुक्तिः प्रारब्धकर्मवशाद् देहे सत्यपि ब्रह्मसाक्षात्कारवतः स्वस्व-
रूपावस्थितिः । अपरं जीवन्मुक्तवत् । प्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यम् ।
-
जीवसाक्षि - अन्तःकरणोपहितं चैतन्यम्- जीवसाक्षि । मायोपहितं चैतन्यम्-
-
-
ईश्वरसाक्षि । यथा - तच्च प्रत्यक्षं पुनर्द्विविधं जीवसाक्षि ईश्वरसाक्षि च । तत्र जीवो
नामान्तःकरणावच्छिन्नं चैतन्यम् । तत्साक्षि तु अन्तःकरणोपहितं चैतन्यम् । अन्तः-