This page has not been fully proofread.

१९४
 
शाङ्कुरवेदान्तकोशः
 
अत्रैव वृत्तौ सर्वार्थसिद्धौ उक्तम्- आत्मानित्यत्ववादिनश्चतुर्विधाः । तेषु
 
ज्ञानात्मवादिनश्शरीरस्थितावात्मनो
आशरीरस्थायिनम्
 
भिदुरत्वमाहुः प्राणेन्द्रियात्मवादिनः आत्मानम्
पौराणिकैकदेशिनस्तु प्रलयान्तम् औपनिषदाभासास्तु
 
मोक्षावधिम् (त० मु० क० स० सि० वृ० २/१७) । अत्र औपनिषदाभासाः इति
पदेनाचार्यब्रह्मदत्तोऽभिप्रेतः । अतः पूर्वमपि जीवजन्मसिद्धान्त आसीत् । यथा -
तोयेन जीवान् व्यससर्ज भूम्याम् (महानारायणोपनिषदि १।४) । यथा च प्रकृतिर्या
मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि (विष्णु-
पुराणे ६।४।२९) । यथा च आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना
कृतिना च त्वमात्मन्येव प्रलीयते (कुमारसम्भवे २ । १०) । यथा च - यथा सुदीप्तात्पावकाद्
विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद् विविधाः सौम्यभावाः प्रजायन्ते
तत्र चैवापयान्ति (ब्र० सू० १/१/२० श्रीभाष्ये) । प्रत्यभिज्ञादर्शनेऽ पिकेचन
जीवजन्म मन्यन्ते ।
 
-
 
जीवघनः - जीवानां संघातः ब्रह्मलोको वा । यथा - स एतस्माज्जीवघनात्
परात्परं पुरिशयं पुरुषमीक्षते। .... कस्तर्हि जीवघन इति उच्यते- घनो मूर्त्तिः ।
जीवलक्षणो घनो जीवघनः । सैन्धवखिल्यवद् यः परमात्मनो जीवरूपः खिल्यभाव
उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति । अपर आह - स सामभिरुन्नीयते
ब्रह्मलोकम् इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सोऽत्र
जीवघन इत्युच्यते । जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे
ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघन: ( ब्र० सू० १।३।१३
शा० भा०) । तदिदमुक्तम् न चात्र जीवघनशब्देन प्रकृतोभिध्यातव्यः परः पुरुषः
परामृष्यते । किन्तु जीवघनात् परात् परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो
जीवः खिल्यभावमुपाधिवशादापन्नः स उच्यते । स सामभिरून्नीयते ब्रह्मलोकम्
इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवधनः । स हि समस्तकारणात्मनः सूत्रात्मनो
हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां संघात इति भवति
जीवघनः । तदेवं त्रिमात्रौंकारायतनं परमेव ब्रह्मोपास्यम् । अत एवास्य देशविशेषाधिगतिः
फलमुपाधिमत्त्वात् । क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः (तत्रैव भामती) ।
 
-
 
जीवजम् – जरायुजम् । यथा - आण्डजं जीवजमुद्भिजम् (छा० ६ । ३ । १ ) इत्यत्र
तृतीयेनोद्भिजशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः । उभयोरपि स्वेदजोद्भिज्जयो-
र्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् (ब्र० सू० २।३।३१ शा० भा०)। जीवजं