This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१९३
 
तत् किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा । ... कृतो यः

प्रयलो धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते दोषा न प्रसज्यन्ते ।

जीवकृतधर्माधर्मवैषभ्यापेक्ष एव तत्तत्फलानि विषमं विभजेत् पर्जन्यवदीश्वरो

निमित्तत्वमात्रेण । …... स्वस्ववीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः ।

एवं जीवकृतप्रयलापेक्ष ईश्वरस्तेषां शुभाशुभं दिति श्लिष्यते ( ब्र० सू०

२।३।४१,४२)। जीवानामुत्पत्तिस्तथा प्रलयो न भवतः । यथा - यथाग्रेः क्षुद्रा

विस्फुलिङ्गान्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे प्राणा (बृ० २।१।२०) ... यथा सुदीप्तात्

पावकात् विस्फुलिङ्गाः । (मु० २।१ ।१ ) यथा च - सुदीप्तात् पावकात् इति ब्रह्मणो

जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद् दर्शयति न जीवो म्रियते (छा० ६।११।३)

(ब्र० सू० २।३।१७ भामती) । यथा च - स वा एष महानज आत्मा

अजरोऽमरोऽमृतोऽभयो ब्रह्म (बृ०४।४।२५) । यथा - यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं

तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् । उपाध्युत्पत्त्यास्योत्पत्तिस्तप्रलये च प्रलयः इति

(ब्र० सू० २ ।३।१७ शा० भा० ) । यथा च - विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने

विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्प्येत । अतश्च स्वाश्रयस्य

नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीव उपचर्यते । अत एवोत्पत्तिरपि जीवस्य

क्वचिदग्निस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या (ब्र० सू० १/४/२२

शा० भा० ) । यथा च - न जीवः आत्मनोऽन्यः, नापि तद्विकारः किन्त्वात्मैवा-

विद्योपाधानकल्पितावच्छेदः आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो

मणिकाकाशो न तु परमाकाशादन्यस्तविकारो वा ततश्च जीवात्मनोपक्रमः परमात्म-

नैवोपक्रमस्तस्य ततोऽभेदात् (अत्र सूत्रे भाम०) । यथा च - न च तेज प्रभृतीनां

सृष्टौ जीवस्य पृथक् सृष्टिः श्रुता । येन परस्मादात्मनोऽन्यस्तद्विकारो वा जीवः

स्यात् । काशकृत्स्नाचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् । आश्मरथ्यस्य

तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम्, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्

कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिमते पुनः स्पष्टमेवाव-

स्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते ।

प्रतिपिपादयिषितार्थानुसारात् तत्त्वमसि इत्यादिश्रुतिभ्यः (तत्रैव शा० भा० ) ।

श्रीशङ्कराप्राक्तन आचार्यः श्रीब्रह्मदत्तो जीवस्य जन्म मनुते । तत्त्वमुक्ताकलापग्रन्थे

आचार्यवेङ्कटदेशिको ब्रङ्कदत्तमतमेवं सूचितवान् - एकं ब्रह्मैव नित्यं तदितरदखिलं तत्र

जन्मादिभाग् इत्याम्नातम् । तेन जीवोऽपि अचिदिव जनिमान् (त० मु० क० २।१६) ।
 
-
 
...