This page has been fully proofread once and needs a second look.

१९२
 
शाङ्करवेदान्तकोशः
 
-
 
श्रुतेः । अनुभवरूपश्च प्रज्ञानघनः (मा० ५) इति श्रुतेः । अनुभवामीति व्यवहारस्तु

वृत्तिप्रतिबिम्बितचैतन्यमादायोपपद्यते । (वे० प० ७५०) एकजीववादे अविद्याप्रतिबिम्बो

जीवः अनेकजीववादेऽन्तःकरणप्रतिबिम्बः । यथा - बिम्बप्रतिबिम्बकल्पनोपाधिश्चैक-

जीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तः करणरूपोपाधि-

प्रयुक्तो जीवपरभेदः इति पूर्वमुक्तम् । अविद्यायाः आश्रयः कः इति विषये पक्षद्वयम् ।

भामतीप्रस्थाने अविद्याया आश्रयो जीवः विषयश्च ब्रह्मेति । यथा अन्तःकरणाद्य-

वच्छिन्नः प्रत्यगात्मा इदमनिदंरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारः

अहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा (ब्र० सू० अध्यासभाम०) ।

यथा च - नाविद्या ब्रह्माश्रया किन्तु जीवे सा त्वनिर्वचनीया (ब्र० सू०१।१।४

भाम०) । एतच्च ब्र० सू० १/१/४, १/२/१, १९४१, १/४/६ भामत्यां बहु

विवृतम्। विवरणप्रस्थाने - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरमिति

श्वेताश्वतरोपनिषच्छ्रुत्या आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः इति संक्षेपशारीरकवचने-

नोपपत्त्या च स्वरूपचैतन्यमेवाविद्याश्रयः न तु जीवः । जीवत्वस्याज्ञाना-

श्रयतावच्छेदकत्वेऽन्योन्याश्रयदोषात् । सिद्धान्तविन्दौ प्रथमश्लोके श्रीमधुसूदनसरस्वतीभिः

श्रीपद्मपादाचार्यवाचस्पतिमिश्र श्रीसर्वज्ञात्ममुनीनां त्रयाणामपि एतद्विषयकः पक्षः

साधूपावर्णितः। जीवेश्वरयोर्न स्वामिभृत्यवत् सम्बन्धो न वा वह्निस्फुलिङ्गवद्

अंशांशिभावः । निरतिशयोपाधिसम्पन्न ईश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति

रीत्या ईशित्रीशितव्यवहारस्तथा भेदाभेदावगमाभ्यामंशत्वावगश्च भवतः । ईश्वरस्य

निरवयवत्वाच्च जीवो नांशः । यथा- पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि

(छा० ३।१२।६) इति । अत्र भूतपदेन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति ।
 
-
 

अंशः पादो भागा इत्यनर्थान्तरम् । तस्मादंशत्वावगमः। यत्तूक्तं स्वामि-

भृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति । यद्यप्येषा लोकप्रसिद्धिस्तथापि

शास्त्रात् त्वंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते । निरतिशयोपाधिसम्पन्नश्चे-

श्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति न किञ्चिद् विप्रतिषिध्यते ।

भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् ।..... न च निरवयवस्य ब्रह्मणोंऽशो जीवः

सम्भवतीत्युक्तम् (ब्र० सू० २।३।४४,४५,४६) । जीवः कर्म कर्तुं स्वतन्त्रः । ईश्वरश्च

जीवकृतप्रयत्नं धर्माधर्मलक्षणमपेक्ष्य कारयति प्रेरयति । तेन वैषम्यनैर्घृण्यादिदोषा

ईश्वरे न प्रसरन्ति । यथा - यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम्
 
-
 
.….....
 
1
 
.....