This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
१९१
 
(ब्र० सू० २ ।३।५३ शा० भा० ) । जीवो नाणुपरिमाणो नापि मध्यमपरिमाणः किन्तु

महापरिमाणो विभुः । यथा- किंपरिमाणो जीव इति चिन्त्यते किमणुपरिमाण उत

मध्यमपरिणाम आहोस्वित् महापरिणाम इति... परमेव चेद् ब्रह्म जीवस्तस्माद् यावत्

परं ब्रह्म तावानेव जीवो भवितुमर्हति । परस्य ब्रह्मणो विभुत्वमाम्नातम् । तस्माद्

विभुर्जीवः (ब्र० सू० २/३/१९-२९ शा० भा०) । जीवस्य प्राज्ञत्वं तैजसत्वं

हिरण्यगर्भत्वं च । यथा - प्राज्ञस्तत्राभिमानेन तैजसत्त्वं प्रपद्यते । हिरण्यगर्भतामी-

शस्तयोर्व्यष्टिसमष्टिता (प० द० १ । २४) । अत्र श्रीरामकृष्णटीका- एवं

सूक्ष्मशरीरममिधाय तदमिमानित्वप्रयुक्तं प्राज्ञेश्वरयोरवस्थान्तरं दर्शयति प्राज्ञ इति ।

प्राज्ञो मलिनसत्त्वप्रधानाविद्योपाधिको जीवः । तत्र तेजः शब्दवाच्यान्तःकरणोप-

लक्षितलिङ्गशरीरे अभिमानेन तादात्म्याभिमानेन तैजसत्वं तैजसात्मकत्वं प्रपद्यते

प्राप्नोति । कोशोपाधिविवक्षायां याति ब्रह्मैव जीवताम् । पिता पितामहश्चैकः पुत्रपौत्रो

यथा प्रति (प० द० ३।४१) । चैतन्यं यदधिष्ठानं लिहश्च यः पुनः । चिच्छाया

लिङ्गदेहस्था तत्सङ्गो जीव उच्यते (त० ४।४१) । आत्माभासस्य जीवस्य संसारो

नात्मवस्तुनः । इति बोधो भवेद् विद्या लभ्यतेऽसौ विचारणात् (त० ६ /११) । कूटस्थे

कल्पिता बुद्धिस्तत्र चित्प्रतिबिम्बकः । प्राणानां धारणाज्जीवः संसारेण स युज्यते

(त० ६।२३) । अधिष्ठानांशसंयुक्तं भ्रमांशमवलम्बते । यदा तदाहं संसारीत्येवं

जीवोऽभिमन्यते (त० ७१७) । भ्रमांशस्य तिरस्कारादधिष्ठानस्य प्रधानता । यदा तदा

चिदात्माहमसङ्गोऽस्मीति बुद्ध्यते (त० ७।१०) । नासङ्गेऽहकृतिर्युक्ता कथमस्मीति

चेच्छृणु । एको मुख्यो द्वावमुख्यावर्थस्त्रिविधोऽहमः (त० ७।९) । अन्योन्याध्यासरूपेण

कूटस्थाभासयोर्वपुः । एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते (त० ७।१०) ।

पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् । पर्यायेण प्रयुङ्क्तेऽहं शब्दं लोके च वैदिके-

(त० ७।११) । असङ्गोऽहं चिदात्माहमिति शास्त्रीयदृष्टितः । अहं शब्दः प्रयुङ्क्तेऽयं

कूटस्थे केवले बुधः (त० ७ । १३) । तस्मादाभासः पुरुषः स कूटस्थो विविच्यताम् ।

कूटस्थोऽस्मीति विज्ञातुमर्हतीत्यभ्यधाच्छ्रुतिः (त० ७।१८) ।
 
-
 

जीवस्यैकत्वमनकेत्वं च । यथा - तस्य च मायोपाध्यपेक्षयैकत्वम्,

अन्तःकरणोपाध्यपेक्षया च नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् ।

बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः (श्वे० ५।८) । इत्यादौ जीवस्य

बुद्धिशब्दवाच्यान्तःकरणपरिमाणोपाधिकस्य परमाणुत्वश्रवणात् । स च जीवः स्वयं

प्रकाशः । स्वप्नावस्थामधिकृत्य अत्रायं पुरुषः स्वयं ज्योतिः (बृ० ४ । ३ ।८) । इति