This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१९०
 
SPOON
 
अविद्या कामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते (बृ० आ०

३/८/१२ शा० भा० ) । यथा च परमात्मैव चोपाधिकल्पितावच्छेदको जीव

इत्याख्यायते (ब्र० सू० ३।१।१ शा० भा०) । जीवत्वमौपाधिकम् । यथा च तथा

प्रतीचोऽहङ्कारादिसाक्षिणः स्वस्मिन् स्वाज्ञानाध्यस्तकार्योपाधिप्रयुक्तमेव जीवत्वं

कर्तृत्वप्रमातृत्वादिसंसारधर्मयोगित्वं हि जीवत्वम् । कर्तृत्वादि च न तस्मिन्नहङ्कारा -

पाधिसम्बन्धमन्तरेण निरूपणपथमवतरति इति जीवत्वमौपाधिकमेवेत्यर्थः (सं० शा०

३।१४८ अ० टी०) । यथा च - इयं व्यष्टि र्निकृष्टोपाधितया मलिनसत्त्वप्रधाना

एतदुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते एकाज्ञानावभासकत्वात् ।

अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशकत्वात् । अस्यापीदमहङ्कारादिकारणत्वात्

कारणशरीरम्, आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्दमयकोशः, सर्वोपरमत्वात्

सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति चोच्यते (वे० सा० ) ।
 
-
 

जीवस्य न चोत्पत्तिर्न च विलयः । यथा - परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो

विज्ञायते न चोत्पत्तिर्विज्ञायते (ब्र० सू० २।३।१७) । यथा च - सर्वसंसारधर्मप्रत्याख्यानेन

परमात्मभावप्रतिपादनात् । तस्मान्नैवात्मोत्पद्यते प्रविलीयते च ।.....आगन्तुकचैतन्य

आत्मेति........... वैशेषिकादितर्कश्च श्रुतिविरोधी आभासी भवति । तस्मान्नित्य-

चैतन्यरूप एवात्मेति निश्चिनुमः । (ब्र० सू० २।३।१८) एकस्मिन्नेव जीवे

उपाधिवशाज्जीवान्तरव्यवहारोऽपि भवति । यथा- सदेव तूपाधिसम्पर्काज्जीव.

इत्युपचर्यत इत्यसकृत्प्रपञ्चितम् । एवं सति यावदेकोपाधिगता बन्धानुवृत्तिस्तावदेक

जीवव्यवहारः । उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः । स एवायमुपाधिः

स्वापप्रबोधयोर्बीजाङ्कुरन्यायेनेत्यतः स एव जीवः प्रतिबध्यत इति युक्तम् (ब्र० सू०

३।२।१० शा० भा०) । जीवः परमात्मनोंऽशो न । यथा - भेदाभेदाभ्यामंशत्वावगमः

(ब्र० सू० २ । ३ । ४३ शा० भा०) । ... पादोऽस्य विश्वाभूतानि (छा० ३/१२/६)....

अंशः पादो भाग इत्यनर्थान्तरम् (ब्र० सू० २।३।४४ शा० भा०) । अनंशत्वमपि

हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति - तत्सृष्ट्वा तदेवानुप्राविशत् (तै०

२।६१) इति (ब्र० सू० २।३।४७ शा० भा०) । यथा च - ममैवांशो जीवलोके

जीवभूतः सनातनः (गी० १५/७) ।... अत्राह ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन

संसारदुःखोपभोगेनांशिनः ईश्वरस्यापि दुःखित्वं स्यात् .... सूर्यप्रतिबिम्बे कम्पमानेऽपि

न तद्वान् सूर्यः कम्पते ....तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः

(ब्र० सू० २।३ । ४६ शा० भा०) । तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्
 
-