This page has not been fully proofread.

१८९
 
शाङ्करवेदान्तकोशः
 
अविद्यावशीभूतो जीवो देहेन्द्रियैः सह तादात्यमधिगम्य शारीरकैन्द्रियिकमानसिक-
सुखदुःखानां भोक्ता भवति । अविद्यापगमे ब्रह्मसाक्षात्कारे जाते स्वस्वरूपं
ब्रह्मत्वमधिगच्छति । आनन्दात्मकब्रह्मावाप्तिरेव जीवस्य मोक्षः । अयं जीवो नाणुर्न
मध्यमपरिमाणः किन्तु विभुः । अणुत्वमौपाधिकम् । अस्य नानात्वमेकत्वं च
पक्षद्वयम् । अयमेव एकजीववादोऽनेकजीववादश्वोच्यते । यथा- तेषामयमाशयः
जीवपरमेश्वरसाधारणं चैतन्यमात्रं बिम्बम् । तस्यैव बिम्बस्याविद्यात्मकायां मायायां
प्रतिबिम्बमीश्वरचैतन्यमन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् । कार्योपाधिरयं जीवः
कारणोपाधिरीश्वरः इति श्रुतेः । एतन्मते जलाशयगतशरावगतसूर्यप्रतिबिम्बयोरिव
जीवपरमेश्वरयोर्भेदः। अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापक-
त्वम् । अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् । एतन्मते
अविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युरूपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वसाद्
बिम्बात्मकमीश्वरचैतन्यमित्यपरे । तेषामयमाशयः । एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वर-
चैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । विम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे
अविद्या । अनेकजीववाव्रे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधिप्रयुक्तो
जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे ।
उपाधेः प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्ब-
सूर्यस्येव जीवपरयोर्भेदः । न नु ग्रीवास्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य
परमेश्वरस्य जीवप्रदेशेऽभावात्तस्य सर्वान्तर्यामित्वं न स्यादिति चेत्, न । साभ्रनक्षत्रस्य
आकाशस्य जलादौ प्रतिबिम्बितत्वेऽपि बिम्बभूतमहाकाशस्यापि जलादिप्रदेशसम्बन्ध-
दर्शनेन परिच्छिन्नबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्यपरिच्छिन्नब्रह्मबिम्बस्य
प्रतिबिम्बदेशसम्बन्धाविरोधात् । न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः रूपवत
एव तथात्वदर्शनादिति वाच्यम् । नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात् । न च नीरूपस्य
द्रव्यस्य प्रतिबिम्बाभावनियमः । आत्मनि द्रव्यत्वाभावस्योक्तत्वात् । एक एव हि भूतात्मा
भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (ब्र० बि० उ० १२) ।
यथा- ह्ययं ज्योतिरात्मा विवस्वानपो भित्वा बहुधैकोनुगच्छन् । उपाधिना क्रियते
भेदरूपो देवः क्षेत्रेष्वेव मजोऽयमात्मा । इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य
बाधितत्वाच्च (वे० प० ७ १०) । यथा च - महान् इति बुद्धिरुच्यते तदुपाधिको
जीव: (सं० शा० ३।२९२ अ० टी०) । यथा च जीवो हि नाम चेतनः शरीराध्यक्षः
प्राणानां धारयिता तत्प्रसिद्धेर्वचनाच्च (ब्र० सू० १/१/६ शा० भा०) । यथा च -
 
-
 
-