This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
जात्याभासः उत्पत्तेरभासो भ्रमज्ञानमिति । यथा- अतस्मिन् तप्रकारकं
ज्ञानम् । अजातिः सज्जातिवदवभासत इति जात्याभासम् । यथा देवदत्तो जायत इति
(मा० उ० गौ० पा० का० ४।४५) । माण्डूक्यकारिकायामजातवादनिरूपणे उक्तं
यज्जगद् अजातमपि जातवदवभासते ।
 
१८८
 
-
 
-
 
जामिता - सादृश्यम् । यथा अजामिकरणार्थत्वाच्चेति (जै० सू० १ ।८।९३)
सूत्रभाष्ये जामिता सादृश्यमिति व्याख्यातम् । तत्रैव नयविवेके जामिता सादृश्यमे -
करूपा हि द्विः क्रियेति तेन कृताकृताननुसंधिदोष इति सादृश्यस्य दोषपर्यवासयि
त्वमुपपादितम् (ब्र० सू० १/१/४ क० त० प० ) ।
 
-
 
जिज्ञासा - ज्ञातुमिच्छा जिज्ञासा । सा च शास्त्राध्ययने प्रयोजिका । जानाति
इच्छति ततो यतत इत्यनुरोधात् । अत एव शास्त्रारम्भे अथातो धर्मजिज्ञासा (जै०
सू० १ ।१ ।१ ) अथातो ब्रह्मजिज्ञासा (ब्र० सू० १ । १ । १) दुःखत्रयामिधातातु तदपघातके
हेतौ जिज्ञासा । (सां० का० १) प्रकृतिप्रत्ययौ सहार्थं ब्रूतः प्रत्ययार्थस्य प्राधान्यादत्र
सन् प्रत्ययार्थस्य इच्छायाः प्राधान्यम् । यथा- अथातो ब्रह्मजिज्ञासा (ब्र० सू०
१।१।१ ) । अत्र शाङ्करभाष्ये - ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन् वाच्याया
इच्छयाः कर्मफलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमाणेनावगन्तुं ब्रह्म ।
 
जितात्मा - समाहितात्मा स्वप्रकाशज्ञानस्वभावः । यथा - शीतोष्णसुखदुःखेषु
चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिभवयोश्चित्तविक्षेपहेत्वोः सतोरपि
तेषु समत्वेनेति वा जितात्मानः प्रागुक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या
रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभाव आत्मा समाहितः समाधिविषयो
योगारूढो भवति (गी० ६।७ म० सू०) । यथा च - कार्यकारणसंघातात्मा जितो
येन स तस्य प्रशान्तस्य जितचित्तस्य योगारूढस्येति यावत् (त० भाष्यो०)।
 
जीवः - ब्रह्मैव जीवो नापरः । एतदर्थं त्रयः पक्षा आलम्बिताः । प्रतिबिम्बवादः
अवच्छेदवादः आभासवादश्च । प्रतिबिम्बवादः श्रीपद्मपादाचार्यानुयायि

नामवच्छेदवादवादश्च श्रीवाचस्पतिमिश्रानुयायिनाम् आभासवादश्च श्रीसुरेश्वरा-
चार्यानुयायिनाम् । तेनाविद्याकार्यान्तःकरणं तत्र प्रतिबिम्बो जीवः अन्तः करणावच्छिन्नं
चैतन्यं जीवः, चैतन्यस्याभासो वा जीव इत्युच्यते । कर्मणः कर्तृत्वं सुखदुःखयोश्च
भोक्तृत्वमस्मिन्नेव जीवे सम्भवति । जाग्रत्स्वप्नसुषुप्तिषु तिसृष्ववस्थासु जीवोऽव-
तिष्ठते । स्थूलसूक्ष्मकारणशरीराभिमान्ययं जीवः क्रमशो विश्वतैजसप्राज्ञसंज्ञां लभते ।
 
-
 
-