This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिः । एषा च चतुर्विंशतिप्रकारा

साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः इत्यादि (गौ० ५/१/१ त०

भा० ) । ३. अतद्व्यावृत्तिः इति बौद्धानां जातिपरिभाषा । ४. संस्थानमात्रव्यङ्ग्यं

सामान्यमिति प्राभाकराणां जातिपरिभाषा । ५. वैयाकरणास्तु - सम्बन्धभेदात् सत्तैव

भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थं

च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः (वा० प०

३ । ३४, ३५ ) । अत्रैव - अनेकव्यत्यभिव्यङ्गया जातिः स्फोट इति स्मृता । कैश्चिद्

व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिता । पातञ्जलमहाभाष्ये तु- प्रादुर्भावविनाशाभ्यां

सत्त्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः । तथा च-

आकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः

सह । अस्यार्थ:- आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम् । गृह्यते इति ग्रहणं

ज्ञानम् ।आकृत्या ग्रहणंयस्याः सा आकृतिग्रहणा । जातिराकृतिग्रहणा संस्थानव्यङ्ग्येत्यर्थः ।

तेन मनुष्यगोमृगहंसादीनां पृथक् पृथक् संस्थानै र्व्यज्यमानत्वाद् मनुष्यत्वगोत्व-

मृगत्वहंसत्वादिर्जातिः । एवं च ब्राह्मणक्षत्रियादीनां पृथक् संस्थानाभावाद् ब्राह्मणत्व-

क्षत्रियत्वादेर्जातित्वं न स्यादित्यतो लक्षणान्तरमाह लिङ्गानां च न सर्वभाक् इति । या

सर्वाणि लिङ्गानि न भजते सा च जातिरित्यर्थः । तेन ब्राह्मणादीनां सर्वलिङ्गभागित्वा-

भावाज्जातित्वम् । एवं सत्यपि अज्ञातगोवृषभस्य जनस्य गोवृषभादिकं दृष्टवतोऽपि

कथं संस्थानेन गोवृषभत्वादिकं व्यञ्जितुं शक्यत इत्यत आह सकृदाख्यातनिर्ग्राया ।

सकृदाख्यातेन सकृदुपदेशेन निर्ग्राह्या । एवं सत्यपि गार्ग्यादीनां कथं जातिप्रतीतिरित्यत

आह – गोत्रं च चरणैः सह । गोत्रं पूर्वाचार्यपरिभाषितम्- गार्गी वात्सीत्यादि । चरणं

च वेदैकदेशे कठादिरूपे प्रसिद्धम् । तेन गार्गी भार्या यस्यासौ गार्गीभार्य इत्यादौ

गार्गीत्यस्य जातित्वाद् जातेश्चेति पाणिनिसूत्रेण पुंवद्भावनिषेधः । अत्रैव महाभाष्ये

प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद् गुणैः । असर्वलिङ्गां बर्थी तां जातिं कवयो

विदुः । ६. जननम् । ७. षड्जादिषु सप्तस्वरेष्वन्यतमः । ८. छन्दोभेदः । ९. जातिनामक

ओषधिविशेषः । १०. चमेली नामक पुष्पविशेषः । ११. वेदशाखाभेदः ।
 
SULL
 
१८७
 
-
 
-
 

 
जातिखण्डनम् - , जातिखण्डन
शाङ्करमते नित्यमेकं ब्रह्मैव । अतो नित्या जातिर्नाङ्गीक्रियते ।

यथा- तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः

सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षे हि घटत्वादिसद्भावे

मानं न तु जातित्वेऽपि (वे० प० १ प०) । तेन नित्यत्वसमवेतत्वघटिता जातिर्नास्ति ।