This page has not been fully proofread.

१८६
 
शाङ्करवेदान्तकोशः
 
उक्तं च जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी । केचन अन्वयानुपपत्तिरपि
लक्षणाबीजम् । मञ्चाः क्रोशन्ति इत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वयासम्भवान्
"मञ्चपदं मंञ्चस्थपुरुषे लाक्षणिकमिति । एवमेव आयुर्घृतमित्याद्युदाहरणम् । यथा...
तथात्रापि वाक्ये तत्त्वंपदयो स्तदर्थयोर्वा विरूद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्व-
परित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ।... न
च तत्पदं त्वम्पदं वा स्वार्थविरुद्धांशपरित्यागेनांशान्तरसहितं त्वंपदार्थं तत्पदार्थं
लक्षयत्वतः प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् । एकेन पदेन
स्वार्थांशपदार्थान्तरोभयलक्षणाया असम्भवात् पदान्तरेण तदर्थप्रतीतौ लक्षणया
पुनस्तप्रतीत्यपेक्षाभावाच्च (वे० सा०) । शक्यसम्बन्धो लक्षणा । ....लक्षणा त्रिविधा
जहल्लक्षणा अजहल्लक्षणा जहज्जहल्लक्षणा चेति (त० सं० श० प० दी० ) ।
मुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत् सा लक्षणारो-
पिता क्रिया । स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता
शुद्धैव सा द्विधा (का०प्र० २।९,१० ) ।
 
-
 
-
 
जाग्रत् - जीवस्यैका अवस्था । यतो हि जीवस्य तटस्थलक्षणं जाग्रत्स्वप्न-
सुषुप्त्यवस्थान्यतमवत्त्वम् । इन्द्रियजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था जाग्रत् ।
यथा - एकजीववादेऽविद्याप्रतिबिम्बो जीवः । अनेकजीववादेऽन्तःकरणप्रतिबिम्बः ।
सच जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान् । तत्र जाग्रद्दशा नामेन्द्रियजन्यज्ञानावस्था ।
अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः । इन्द्रियजन्यज्ञानं चान्तःकरणवृत्तिः । स्वरूप-
ज्ञानस्यानादित्वात् । अन्यदवस्थाद्वयं स्वप्नस्तथा सुषुप्तिः ।
 
जातिः - १. अनुगतैकाकारबुद्धिजननसमर्था, अवयवव्यङ्गया सकृदुपदेश-
व्यङ्ग्या । इति शाङ्कराद्वैतिनः । अस्मिन् मते जातिनामकः सामान्यपरपर्यायः पृथगपरः
कोऽपि पदार्थो नाङ्गीक्रियते । यथा जातिनामको भावपदार्थो न्यायवैशेषिकैर्मन्यते ।
यथा... तयोर्जातित्वं न स्यादिति वाच्यम् । इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः
सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षं हि घटत्वादिसद्भावे
मानं न तु तस्य जातित्वेऽपि । जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् ।
समवायासिद्ध्या ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य
घटत्वादावसिद्धेश्च। एवमेवोपाधित्वमपि निरसनीयम् (वे० प० १ प०) । २. (क)
नित्यमेकमनेकानुगतं सामान्यम् (जातिः) (त० सं०) । (ख) जाति: दूषणाभिधानम्
साधर्म्यवैधर्माभ्यां प्रत्यवस्थानं जाति: (गौ० १।२।१८) अस्यार्थः व्यक्तिनिरपेक्षाभ्यां