This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१८५
 
-
 
सम्बन्धिक्रौर्यादिसम्बन्धेन माणवकस्य प्रतीतिः । प्रकारान्तरेण लक्षणा त्रिविधा -

जहल्लक्षणा, अजहल्लक्षणा जहज्जहल्लक्षणा चेति । तत्र शक्यमनन्तर्भाव्यं

यत्रार्थान्तरप्रतीतिस्तत्र जहल्लक्षणा - यथा विषं भुङ्क्ष्वेति । अत्र स्वार्थं विहाय शत्रुगृहे

भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजहल्लक्षणा

यथा शुक्लो घट इति । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये

लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे वर्तते

तत्र जहदजहल्लक्षणा - यथा सोऽयं देवदत्त इति । अत्र हि पदद्वयवाच्ययोर्विशिष्ट-

योरैक्यानुपपत्त्या पदद्वयंस्य विशेष्यमात्रपरत्वम् । यथा तत्त्वमसि इत्यादौ तत्पदवाच्यस्य

सर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्यायोगादैक्यसिद्ध्यर्थं स्वरूपे,

लक्षणेति साम्प्रदायिकाः । वयन्तु ब्रूमः- सोऽयं देवदत्तः तत्त्वमसि इत्यादौ विशिष्ट-

वाचकपदानामेकदेशपरत्वेऽपि न लक्षणा शक्त्युपस्थितयोर्विशिष्टयोरभेदान्वया-

नुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेवाभेदान्वयाविरोधात् । यथा घटोऽनित्य इत्यत्र

घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटपदव्यक्त्या सहानित्यत्वान्वयः । यत्र

पदार्थैकदेशस्य विशेषणतयोपस्थितिस्तत्रैव स्वातन्त्र्येणोपस्थितये लक्षणाभ्युपगमः । यथा

घटो नित्य इत्यत्र घटपदाद्घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशो- पस्थित्यर्थं

घटपदस्य घटत्वे लक्षणा । एवमेव तत्त्वमसीत्यादिवाक्येऽपि न लक्षणा शक्त्या

स्वातन्त्रेणोपस्थितयोस्तत्त्वंम्पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा गेहे घटो घटे

रूपं घटमानयेत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां

विशेष्यमात्रपरत्वं लक्षणयैव स्यात् । तस्मात् तत्त्वमसीत्यादिवाक्येषु आचार्याणां

लक्षणोपत्तिरभ्युपगमवादेन बोध्या । जहज्जहलक्षणोदाहरणं तु- काकेभ्यो दधि

रक्ष्यतामित्याद्येव । तत्र शक्यकाकपरित्यागेनाशक्यदध्युपघातकत्वपुरस्कारेण

काकेऽकाकेऽपि काकशब्दस्य प्रवृत्तेः । लक्षणाबीजं तु तात्पर्यानुपपत्तिरेव न

त्वन्वयानुपत्तिः, काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात् । गङ्गायां घोष

इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् । लक्षणा च न पदमात्रवृत्तिः । किन्तु

वाक्यवृत्तिरपि । यथा गम्भीरायां नद्यां घोष:- इत्यत्र गम्भीरायां नद्यामिति

पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यार्थस्याशक्यतया कथं शक्यसम्बन्धरूपा

लक्षणा । उच्यते शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च

यथा पदार्थस्तथा
पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः (वे० प० ४ प० ) ।

इयमेव जहत्स्वार्था, अजहत्स्वार्था जहदजहत्स्वार्था लक्षणेत्यभिधीयते । जहति पदानि

स्वार्थं यस्यां सा जहत्स्वार्थेत्यर्थः । एवमेव अजहत्स्वार्था जहदजहत्स्वार्थेत्यत्रापि ।