This page has been fully proofread once and needs a second look.

१८४
 
शाङ्करवेदान्तकोशः
 
इत्थं निरूपितः - अविद्यातद्व्याप्यतत्कार्यात्मकः प्रपञ्चो दृश्यपदार्थः । तस्या-

पारमार्थिकत्वेऽपि व्यावहारिकसत्ताभ्युपगमाद् न स्वाप्निकपदार्थवन्निरूपणं व्यर्थम् ।

उपासनादावुपयोगादिति । सोऽपि त्रिविधः अव्याकृतमूर्तामूर्तभेदात् । तत्र साभासाविद्या

मूर्तामूर्तपञ्चवीजशक्तिरूपा । तदजन्यत्वेऽपि तन्निवृत्तौ निवर्तमानत्वेन तद्व्याप्यैः

चैतन्यतत्सम्बन्धबीजजीवेश्वरविभागचिदाभासैः सहानादित्वादव्याकृतमित्युच्यते ।

अयमव्याकृतपदार्थ ईश्वरोपाधिः । सा स्वयं जडाप्यजडेन चिदाभासेनोज्ज्वलिता

पूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धकात्मन्याकाशवायुतेजो-

जलपृथिव्याख्यानि पञ्चभूतानि जनयति । तत्र पूर्वपूर्वभावापन्नाया अविद्याया उत्तरोत्तरं

प्रति कारणत्वात् पूर्वपूर्वगुणानामुत्तरोत्तरगुणेष्वनुप्रवेशः । एवमविद्यात एवान्धकारोऽपि

भावरूपएवावरणात्मा चाक्षुषज्ञानविरोधी आलोकनाश्यश्च झटिति महाविद्युदादि-

वदाविर्भवति तिरोभवति चेति सिद्धान्तः । संसारहेतुदेहोपादानाभावाच्च न श्रुतिषु

सृष्टिप्रक्रियायामम्नात इत्यविरोधः । दिक्कालौ त्वप्रामाणिकत्वान्नोक्तौ । आकाशस्यैव

दिग्व्यवहारजनकत्वसम्भवात् दिशः श्रोत्रमिति श्रुतेश्च । कालस्त्वविद्यैव । तस्या एव

सर्वाधारत्वादिति । तानि च सूक्ष्माण्यपञ्चीकृतानि पञ्चे महाभूतान्यमूर्त्ताख्यानि

कारणैक्यात् सत्त्वरजस्तमोगुणात्मकानि सत्त्वांशप्राधान्येन ज्ञानक्रिया जडात्मिका

शक्तिः - अविद्या । यथा - अस्य परमेश्वरस्य अपरा जडाशक्तिः । या सा त्वविद्योच्यते

सा चानृतरूपेणेत्यर्थात् सिद्धा । .... अनित्यया जडात्मिकयाऽविद्याशक्त्या सविकारं

प्राप्नुवन्त्या योगाच्चिच्छक्तिरुद्दिच्यते (सं० शा० ३।२२८ अ० टी०) ।
 
-
 
जन्म -

 
जन्म, जन्मन्
जन्मादिभावविकारेषु षट्सु त्रिषु वा अन्यतमम् उत्पत्तिरूपम् । यथा-

परिणामोऽपि द्विविधो धर्मलक्षणोऽवस्थालक्षण उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः

परिणामः कटकमुकुटादिस्तस्योत्पत्तिः । एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः

परिणामः उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वायुत्पत्तिः (ब्र० सू० १/१/२

भाम०) । नामरूपं व्याकरवाणि इति श्रुत्या वस्तुनोऽव्याकृतस्य व्याकृतत्वमेव जन्म ।
 
-
 
-
 

 
जहल्लक्षणा - , जहल्लक्षणा
शक्यसम्बन्धरूपा लक्षणा अथवा शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते

तत्सम्बन्धो लक्षणा । यथा - लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । तत्र

शक्यसाक्षात्सम्बन्धः केवललक्षणा यथा गङ्गायां घोष इति । अत्र प्रवाहसाक्षात्-

सम्बन्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र

लक्षितलक्षणा । यथा द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन

मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा सिंहो माणवक इति । अत्र सिंहशब्दवाच्य-