This page has not been fully proofread.

शावेदान्तकोशः
 
१८३
 
-
 
इति श्रुतेः (वं० प० ७ प०) । यथा च- बुद्धिविलासप्रकारत्रयमिदं क्रमादधि-
कारिणामित्युक्तम् । द्वितीये तत्र कृपणादीनां मध्ये कृपणस्य ब्रह्मपरिणामो जगदिति,
मध्यमस्य ब्रह्मविवर्ती जगदिति अज्ञानिनस्तु बहवो जीवाः सन्तीति, परिपक्वधि-
यस्त्वहमेव मुमुक्षुरन्ये मदज्ञानकल्पिताः । परमाश्रयविषयं च तम इति (सं० शा०
३।२४० सु० टी०) ।
 
जडम् – चैतन्यविपरीतम् । यथा - जडम् इति तदभिधीयते यत्स्वव्यवहारे
स्वविलक्षणस्वभावं प्रकाशं नियमेनापेक्षते यथा घटपटादि स्वविलक्षणस्वभावं चित्प्रकाशं
स्वप्रतिबद्धव्यवहारेऽपेक्षते (सं० शा० मं०श्लो० पृ० ३ सु० टी०) ।
 
-
 
-
 
जडत्वम् – चिद्भिन्नत्वम्, ज्ञातृभिन्नत्वम्, ज्ञानभिन्नत्वम्, अनात्मत्वम् । यथा -
जडत्वमपि हेतुः । ननु किमिदं जडत्वम् । अज्ञातृत्वं वा अज्ञानत्वं वा अनात्मत्वं वा
(अ० सि० १५० ज० हेतू० ) ।
 
-
 
छुल्लकः - क्षुद्रकः । यथा - क्षुल्लकाः क्षुद्रकाः शिशव इति यावत्
(छा० उ० १/१२/२ आ० गि०) ।
 
-
 
-
 
जगत् – स्थावरजङ्गमान्तं चैतन्यातिरिक्तं सर्वं प्रपञ्चजातं जगदित्युच्यते !
सर्वं खल्विदं ब्रह्म इति श्रुतिः । अस्ति भाति प्रियं रूपं नाम चेति पञ्चरूपात्मकं
जगत्। यथा – अस्तिभाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं
जगद्रूपं ततो द्वयम् (वे० प० ७ प०) । यथा च - कार्यमाकाशादिकं बहुप्रपञ्चं
जगत् । कारणं परं ब्रह्म तस्मात् कारणात् परमार्थतोऽन्यत्वं व्यतिरेकेणाभावः
कार्यस्यावगम्यते (ब्र० सू० २ । १ । १४ शा० भा०) । इदमाविद्यकमनादि च । यथा -
अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात् सर्वज्ञस्य तस्मादेतस्मादात्मनः आकाशः
सम्भूतः (तै० उ० २।१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वभावात् सर्वज्ञात्
सर्वशक्तेरीश्वराज्जगज्जनिस्थितिलयः । स च स्वात्मभूतानेव घटाकाश-
जीवाख्यान्
स्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो
विज्ञानात्मनः प्रतीष्टे व्यवहारविषये।.... सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं
कर्म कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत । नैष दोषः अनादित्वात् ।
संसारस्य भवेदेव दोषो यद्यादिमान् संसारः स्यात् (ब्र० सू० २।१।३५ शा० भा०) ।
सृष्टि क्रमः २/१/६, २५, ३०, ३२, ३३, ३६ ब्र० सू० शां भा० सविस्तरं विवेचितः ।
अयं शाङ्कराभिमतः औपनिषदः सृष्टिक्रमः श्रीमधुसूदनसरस्वतीभिः सिद्धान्तबिन्दौ
 
.....