2023-03-12 05:00:53 by ambuda-bot
This page has not been fully proofread.
१८२
शावेदान्तकोशः
सर्वज्ञः स सर्ववित् यस्य ज्ञानमयं तपः इत्यादिश्रुतयः प्रमाणम् । शरीरहेत्वदृष्टाभावात्
परमात्मा शरीररहितः एवैके, अन्ये तु पुरुषादृष्टेन अस्मदीया दृष्टेन इच्छाप्रयुक्तस्य
शरीरस्येश्वरेऽपि सम्भव इति न्यायविदः । ३. वुद्धौ ज्ञस्य पुरुषस्य प्रतिविम्बः
चिच्छाया एव चैतन्यमिति सांख्यविदः । योगश्चित्तवृत्तिनिरोधः (पा०यो०सू० १।१ )
इत्यस्य तत्त्ववैशारद्याम् – किन्तु बुद्धिरेव विषयाकारेण परिणता सती अतदाकारायै
चितिशक्त्यै विषयमादर्शयति ततः पुरुषश्चेतयत इत्युच्यते । इति योगविदः ।
-
चोदना – क्रियायां प्रवर्तकं वचनम् । यथा - चोदनेति क्रियायाः प्रवर्तकं वचनम्
(ब्र० सू० १/१/४ शा० भा० ) । यथा च - या हि चोदना धर्मस्य लक्षणं सा स्व-
विषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्वेव केवलम्
अवबोधस्य चोदनाऽजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते (ब्र० सू० 91919 शा०
भा०)। चोदनेति वैदिकशब्दमाह विशेषेण सामान्यस्य लक्षणात् । ..... आज्ञादीनां
पुरुषाभिप्रायभेदानामसम्भवात् । अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तं तस्य
ज्ञानमुपदेश इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां तद्विषये यागादौ स हि
भावनाया विषयः । तदधीननिरूपणत्वात् प्रयलस्य भावनायाः । षिञ् बन्धने इत्यस्य
धातोर्विषयपदमुत्पत्तेः (तत्रैव भा०) । शक्त्यात्मकमेकं स्वच्छद्रव्यं चित्ररूपमिव मिलित्वा
जनयति । तस्य च ज्ञानशक्तिप्रधानोंऽशोऽन्तःकरणम् । .....एवमेकैकभूतेभ्यो
ज्ञानक्रियाशक्तिभेदात् प्रत्येकमिन्द्रियद्वयं जायते । आकाशाच्छ्रोत्रवाचौ.... तानि
.
च तथाभूतानि भूतानि भोगायतशरीरं भोग्यं च विषयमन्तरेण भोग्यं जनयितुम-
शक्नुवन्ति जीवकर्मप्रयुक्तत्वात् स्थौल्याय पञ्चीकृतानि भवन्ति ।... एवं विषया अपि
पञ्चीकृतैकभूतजन्याश्चतुर्दशभुवनाख्या उर्ध्वमध्याधोभावेन सत्त्वरजस्तमोऽशप्रधानाः ।
एतत्सर्वं ब्रह्माण्डं विराडिति मूर्तमिति चोच्यते । अयमौपनिषदः सृष्टिक्रमः।
तद्विपरीतो लयक्रमः (सि० वि० ८ श्लो०) । महर्षिकणादो मानवादिशरीरे पृथिव्या-
काशादीनां परस्परसम्बन्धाद् मानवादिशरीरस्य प्रत्यक्षं न स्यादित्याशङ्क्य वैशेषिक -
सूत्रे (४।२।२) पञ्चीकरणप्रक्रियां खण्डितवान् । भगवान् श्रीशङ्कराचार्यो ब्रह्मसूत्रे
(२।२।११) भाष्ये पञ्चीकरणप्रक्रियां समर्थितवान् ।
....
....
जगतो जन्मनः कारणं क्रमश्च - जीवानां कर्मभोगार्थं परमात्मनः सङ्कल्पः ।
यथा - तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतु प्राणिकर्मसहकृतोऽपरिमिता-
निरूपितशक्तिविशेषविशिष्टमायासहितः
बुद्धावाकलय्येदं करिष्यामीति सङ्कल्पयति तदैक्षत बहुस्यां प्रजायेय (तै० उ० २१६) ।
सन्नामरूपात्मकनिखिलप्रपञ्चं
प्रथमं