This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१८१
 
-
 
-
 
चिन्तनम् - , चिन्तन
ध्यानम् । यथा- ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण

कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं पुरुषतन्त्रत्वात् (ब्र०सू० १ १/४ शा०भा०) ।
 
-
 
चेतना -

 
चेतना, चेतना
चैतन्याभिव्यञ्जिका बुद्धिप्रवृत्तिः, ज्ञानाख्या चित्तवृत्तिर्वा । यथा -

भूतानामस्मि चेतना कार्यकारणसंघातेऽनित्याभिव्यक्ता बुद्धिप्रवृत्तिश्चेतना (गी०

१० । २२ शा० भा० ) । चेतना धीवृत्तिः चिदभिव्यक्तित्वात् (तत्रैव नी० क० ) । संघाते

जीवाधिष्ठिते यावत् प्रपञ्चत्वं सर्वत्र व्यापिनी चैतन्याभिव्यञ्जिकेति दोषः (तत्रैव

आ० मि०) । चेतना कार्यकारणसंघातेऽभिव्यक्ता बुद्धिवृत्तिः (तत्रैव भाष्यो०) । भूतानां

सर्वप्राणिसम्बन्धिनां परिणामानां मध्ये चिदभिव्यञ्जिका बुद्धेर्वृत्तिश्चेतनाहमस्मि

(तत्रैव म० सू०) । तस्यामभिव्यक्तान्तःकरणवृत्तिस्तप्त इव लोहपिण्डेऽग्निरात्मचैतन्या-

भासरसविद्धा चेतना सा च क्षेत्रं ज्ञेयत्वात् (तत्रैव १३।६ शा० भा० ) । सेन्द्रियं

शरीरं चेतनास्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिर्ज्ञानाख्या

(तत्रैव म० सू० ) ।
 
-
 

 
चेता- , चेतस्
चेतयिता चिद्रूपो वा । यथा - चेता चैतन्यरूपो न तत्कर्ता स्वरूप-

चैतन्येन संघातस्य चिदाभासतापादनं चेतयितत्वम् (सं० शा० ११८३ अ० टी०) ।
 
चैतन्यम् –

 
चैतन्यम्, चैतन्य
१ . (क) चेतना बुद्धिवृत्तिस्तस्याश्चेतनस्य वा भावश्चैतन्यम् । एतच्च

त्रिविधम् । यथा - त्रिविधं चैतन्यं प्रमातृचैतन्यम्, प्रमाणचैतन्यम्, विषयचैतन्यं चेति ।

तत्र घटाधवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्,

अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् (वे०प०१ प०) । (ख) चिच्छाया

चिदाभासश्चित्प्रतिबिम्बो वा चैतन्यम् । तत्र मायोपाधिकं चैतन्यमीश्वरः अविद्योपाधिकं

चैतन्यं जीव इति । अत्र शुद्धसत्त्वप्रधाना माया, मलिनसत्त्वप्रधाना अविद्येति । इत्यद्वैत-

वेदान्तिनः । २. चैतन्यं ज्ञानं ज्ञानवाँश्चात्मा । यथा - ज्ञानाधिकरणमात्मा । स द्विविधः

परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु

प्रतिशरीरं भिन्नो विभुर्नित्यश्च (त० सं० ) । तत्रेश्वसाधकानुमानम् - क्षित्यङ्कुरादिकं

कर्तृजन्यं कार्यत्वाद् घटवदित्यनुमानस्य प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञान-

चिकीर्षाकृतिमत्त्वं कर्तृत्वम् ।.. शरीरस्य करपादादिनाशे शरीरनाशादात्मनोऽपि नाशापत्तेः ।

.. तस्माद्देहेन्द्रियादिव्यतिरिक्तो जीवः (तत्रैव दी०) । यथा च - बुद्ध्यादयोऽष्टौ

आत्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या

जीवस्य (त० सं०) । द्यावाभूमी जनयन्देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता, यः
 
-
 
...