This page has not been fully proofread.

१८०
 
शावेदान्तकोशः
 
प्रागपि विज्ञानाच्चित्तदृश्यं तद्वयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य
समाद्वयैवानुपपत्तिर्न पुनः कदाचिद् भवति कदाचिद् वा न भवति । सर्वदैकरूपैवेत्यर्थः
(तत्रैव ४।७७ शा० भा० ) ।
 
चित्तवृत्तिः - चित्तस्य - महत्तत्त्वरूपस्य अन्तःकरणस्य वा वृत्तिः इन्द्रिय-
प्रणालिकया अनुमानद्वारा शब्दद्वारा वा तत्तदर्थाकारा परिणतिः । ताश्च वृत्तयश्चैत्र-
मैत्रादिचित्तभेदाद् बह्व्योऽपि पञ्चतयी पञ्चावयवा वृत्तिर्भवति । यथा - वृत्तयः
पञ्चतय्यः क्लिष्टाक्लिष्टा: (पा० यो० सू० १।५ ) । ताश्च प्रमाणविपर्यय-
विकल्पनिद्रास्मृतयः (पा० यो० सू० ११६) । संस्कारैर्वृत्तयो जायन्ते वृत्तिभिश्च
संस्काराः । यथा - तथाजातीयकाः संस्काराः वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तयः
इत्येवं वृत्तिसंस्कारचक्रमनिशमावर्तते (पा०या० सू० ११५ व्यासभाष्यम्) ।
 
-
 
चित्तवृत्तिनिरोधः - आत्मज्ञानादेव यथा- अनन्यसाधनत्वाच्च निरोधस्य । न
ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति । (बृ० उ०
१।४।७ शा० भा० ) ।
 
चित्तस्पन्दितः - आत्मा । यथा सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयं चित्तं
परमार्थत आत्मैवेति निर्विषयं तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितम् (मा० उ०
गौ० पा० का० ४।६२ शा० भा० ) ।
 
चितिः - लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधारिष्टिकाभिः पक्ष्याकारेण
स्थानं निष्पाद्यते सेयं चितिः (जै० न्या० ४।४।६) ।
 
चिदाभासनम् - चिदवच्चैतन्यवद् भासते केवलम् तन्न चिन्नापि जडम् ।
यथा- चिदवदाभासनं चिदाभासनं न साक्षाच्चिन्नापि जडम् (सं० शा० ३ । २७७
सु० टी०) । यथा च - मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत्
प्रोक्तं तदन्तः पात्ययं यतः (प० द० ६।२१६) । यथा च - तदर्थेऽनादिसिद्धम-
ज्ञानमुपाधिः । अस्मिन्नुपाधौ चिदाभासनं चिदवदाभासनं न साक्षाच्चिन्नापि जडं
चित्सन्निधिवशादुपाधिधर्मतया जातं तच्च कारणमायागतं सदीश्वरत्वं
चिदात्मनीश्वरशब्दप्रवृत्तिद्वारमित्यर्थः (सं० शा० ३।२७७ अ० टी०) ।
 
चिद्भेदः - कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ
जलाकाशाभ्रखे यथा (प० द० ६।१८) ।