This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१७९
 
चिच्छक्तिः- , चिच्छक्ति
चैतन्यशक्तिः संविच्छक्तिर्वा । यथा- परमेश्वरस्यैका चिद्रूपा

शक्तिरपरा च जडात्मिका शक्तिरिति शक्तिद्वयमस्ति । चैतन्यमेव चिच्छक्तिरुच्यते । सा

च विमलोत्पत्त्यादिमलरहिता स्वरूपभूता सत्यैव (सं० शा० ३ । २२८ अ० टी०) ।
 
-
 
चित् -

 
चित्, चित्
चिति संज्ञाने इति धातोर्निष्पन्नश्चैतन्यम् इत्यर्थः । चिद् ब्रह्म जीवश्च ।

ब्रह्म सच्चिदानन्दरूपम् । एवमेव जीवोऽपि इति वेदान्तिनः ।२. असाकल्यम् - कच्चित्

कथंचिदित्यादि । ३. चयनकर्ता । यथा अग्निचित् । ४ - अव्यक्तशब्दानुकरणम्, यथा

हस्तिनश्चित्कारे ।
 
-
 
-
 

 
चित्तम् - , चित्त
१. मनः, अन्तःकरणस्यैवैकं रूपम् इत्यद्वैतवेदान्तिनः । महत

एवैकं रूपमिति साङ्ख्ययोगविदः । यथा योगश्चित्तवृत्तिनिरोधः (पा० यो० सू०

१ । २) । ३. मन एव चित्तमिति नैयायिकाः । ४. चित्तं विकल्पो विज्ञप्तिर्मनो

विज्ञानमेव च । आलयस्त्रिभवश्चेष्टा एते चित्तस्य पर्यायाः (ल० सू० १०/४४९) ।

४. माया यथा - चेतश्चित्तं क्रतुर्माया इतिचित्तामिधायकतावगमान् माया शब्दस्य

(त० प्र० मि० प्र० नय० प्र०) ।
 

 
चित्तकालः, चित्तकाल
कल्पनाकालः । यथा मनोरथादयो हि चित्तकालास्तद्वत् सर्वम् ।

यथा - विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान् । नियताँश्च बहिश्चित्त एवं

कल्पयते प्रभुः । चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव

ते सर्वे विशेषो नान्यहेतुकः (मा० उ० का० २।१३,१४) ।
 
-
 

 
चित्तचैत्ताः - , चित्तचैत्त
चित्तेन विज्ञानेन उद्भूताः पदार्थाः इति बौद्धदार्शनिकाः ।

ब्रह्मसूत्रशाङ्करभाष्ये विमृष्टमत्र - तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्

सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपन्नोऽभावाद् भावोत्पत्त्यभ्युपगमः । अपि

च चतुर्भिश्चितचैता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत

इत्यभ्युपगम्य आकुलीक्रियते (ब्र० सू० २ । २ । २६ शा० भा०) । अपि च येपि

सर्वतो विलक्षणानि स्वलक्षणानि वस्तूनि सन्त्यास्थिषत तेषामपि किमिति

बीजजातीयेभ्योऽङ्कुरजातीयान्येव कर्माणि न तु क्रमेलकजातीयानि (तत्रैव भा०) ।
 

 
चित्तदृश्यम् - , चित्तदृश्य
चित्तमेव दृश्यं स्वप्न इति यावत् । यथा... तेन दृश्यास्ते

जीवास्तस्मात् स्वप्नदृक् चित्तात् पृथङ् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यनेक-

जीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक् चित्तमिदं दृश्यमेव तेन स्वप्नदृशा

दृश्यं तद् दृश्यम् (मा० उ० गौ० पा० का० ४।६४ शा० भा०) । यथा च - यस्मात्
 
-