This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
सैन्धवखिल्यवद् यः परमात्मनो जीवरूपः खिल्यभावः परश्च विषयेन्द्रियेभ्यः सोऽत्र

जीवघन इति । अपर आह - स सामभिरुन्नीयते ब्रह्मलोकमित्यतीतानन्तर-

वाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सोऽत्र जीवघन इत्युच्यते जीवानां

हि सर्वेषां कारणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातो-

पपत्तेर्भवति ब्रह्मलोको जीवघनः । तस्मात्परो यः परमात्मेक्षणकर्मभूतः । स

एवाभिध्यानेन कर्मभूत इति गम्यते । परं पुरुषमिति च विशेषणं परमात्मपरिग्रह

एवावकल्पते । परो हि पुरुषः परमात्मैव भवति । यस्मात्परं किञ्चिन्नास्ति । पुरुषान्न

परं किञ्चित् सा काष्ठा सा परा गतिः इति श्रुत्यन्तरात् (ब्र० सू० १ । ३ । १३

शा० भा० ) ।
 
१७८
 
ब्रह्म
 
-
 

 
चतुष्पात् - , चतुष्पात्
ब्रह्म । यथा - चतुष्पाद् ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं

ब्रह्म
त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेव जातीयकाः (ब्र० सू० ३।२।२ शा०

भा०) । यथा च - आत्मनः चतुष्पादत्वेन विश्वतैजसप्राज्ञतुरीयत्वेन अवस्था -

अयमात्मा ब्रह्म इति श्रुतिः । अयमिति चतुष्पात्त्वेन प्रविभज्य भज्यमानं

प्रत्यगात्मतयाऽभिनयेन निर्दिशतीति (मा० उ० गौ० पा० का० १/२ शा० भा० ) ।

यथा च - चतुष्पादत्वेन विश्वतैजसप्राज्ञतुरीयत्वेनेत्यर्थः (तत्रैव आ० गि०) ।
 

 
चरणम् - , चरण
आचार: चारित्र्यं शीलमित्यर्थः लाक्षणिकोऽनुशय इति आचार्य-

कार्ष्णाजिनिः । यथा - तद् य इह रमणीयचरणा: (छा० उ० ५/१०/७) इति सा

खलु चरणाद् योन्यापतिं दर्शयति नानुशयात् । अन्यच्चरणमन्योऽनुशयः । चरणं चारित्र्य

माचारः शीलमित्यनर्थान्तरम् । अनुशयस्तु भुक्तफलात् कर्मणोऽतिरिक्तं कर्माभिप्रेतम् ।

श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति च । तस्माच्चरणादयोन्यापत्तिश्रुतेर्नानुशय-

सिद्धिरिति चेत् नैष दोषः । यतोऽनुशयोपलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णा-

जिनिराचार्यो मन्यते (ब्र० सू० ३।१।९ शा० भा०) । तदेवं चरणशब्देन आचार-

वाचिना सर्वोऽनुशय लक्षित इत्युक्तम् (तत्रैव भाम० ) । बादरिस्त्वाचार्यः

सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणमनुष्ठानं कर्मेत्यनर्थान्तरम्

(३।१।११ शा० भा० ) ।
 
-
 
-
 

 
चलाभासः - , चलाभास
चलमिव भासते । यथा - जात्याभासं चलाभासं वस्त्वाभासं

तथैव च (म० उ० गौ० पा० का० ४।४५) जात्याभासो यथा देवदत्तो जायते,

चलाभासो यथा देवदत्तो गच्छति, वस्त्वाभासो यथा स एव देवदत्तो गौरो दीर्घः ।

अत्र वस्तुशब्दो द्रव्यपरो धर्मपरश्च (तत्रैव शा० भा० ) ।