2023-03-12 05:00:52 by ambuda-bot
This page has not been fully proofread.
शाङ्कुवेदान्तकोशः
१७७
वेदनीयं नारकतिर्यगादिलक्षणं पुण्यस्य इष्टमनुकूलवेदनीयं देवादिलक्षणं मिश्रस्य तु
पापपुण्ययुगलस्य मिश्रमिष्टानिष्टसंयुक्तं मानुषलक्षणमित्येवं त्रिविधमित्यनुवादो
हेयत्वार्थ: (तत्रैव म० सू०) । अनिष्टं नरकतिर्यगादिलक्षणमिष्टं देवादिलक्षणम्,
मिश्रमिष्टानिष्टसंयुक्तं मनुष्यलक्षणम्, चैवं विधं त्रिप्रकारं कर्मणो धर्माधर्मलक्षणस्य
फलं बाह्यानेककारकव्यापारनिष्पन्नत्वादनेकमविद्याकृतत्वात् । मिथ्याभूतमिन्द्रजालमायोपमं
महामोहकरं प्रत्यगात्मोपसर्पीव फल्गुतया लयमदर्शनं गच्छतीति फलशब्दनिर्वचनात् ।
तदेवं त्रिविधं फलत्यागिनामज्ञानां कर्मिणामपरमार्थसंन्यासिनां प्रेत्य शरीरपातादूदूर्ध्वं
भवति । फलाभिसन्धिरहितानां कर्मणां देहपातादूर्ध्वं सञ्चितादिकर्मानुरोधिफलस्यावश्यं
भावादिति भावः (तत्रैव भाष्यो०)। अनिष्टं नारकित्वमिष्टं देवत्वं मिश्रं
मानुष्यत्वम् एवं त्रिविधं पापस्य पुण्यस्य चोभयमिश्रस्य च कर्मणो यत्फलं
प्रसिद्धं तत्सर्वमत्यागिनां सकामानामेव प्रेत्य परत्र भवति । तेषां त्रिविधकर्मसम्भवात्
न तु संन्यासिनां क्वचिदपि भवति । संन्यासिशब्देनात्र फलत्यागसाम्यात् प्राकृताः
कर्मफलत्यागिनोऽपि गृह्यन्ते (तत्रैव श्रीधरी) ।
ग्रन्थिः – अविद्याजन्यभ्रमादिबोधः । यथा - एवं ग्रन्थयो ग्रन्थिवद्दृढबन्धरूपा
अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणा-
स्तद्विपरीतब्रह्मात्मप्रत्ययोपजननाद् ब्रह्मैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु
विनश्यन्ति (का० उ० ६।१५ शा० भा०) ।
ग्रहः इन्द्रियाणि । यथा - तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रिय-
विषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता (ब्र० सू० ४।२।६ शा० भा०) ।
ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः (तत्रैव भा० ) । यथा च - अथ हैनं
जारत्कारव आर्तभागः प्रपच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति (बृ० उ० ३।२।१ ) । प्राणो ह वै ग्रहः
सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि हि गन्धाञ् जिघ्नति (तत्रैव २) । वागू वै
ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति (तत्रैव ३) । जिह्वा
वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान् विजानाति (तत्रैव ४) ।
एतद्विशदार्थमतिग्रहशब्दोऽपि द्रष्टव्यः ।
....
1
-
घनः – मूर्त्तिः - यथा - स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते ।
कस्तर्हि जीवघन इति । उच्यते - घनो मूर्त्तिः । जीवलक्षणो वनो जीवधनः ।