This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
गूढचर्या - , गूढचर्या
गुप्तवासः । यथा - गूढचर्या स्वगुणाप्रख्यानेन देशेषु वासः

(ब्र० सू० २।२।३७ वे० क० त० ) ।
 
१७६
 
-
 

 
गेष्ण्यौ, गेष्ण्य
ऋक्सामांदिषु लोके च गीयमानः सर्वात्मा । यथा - पृथिव्यग्न्याद्यात्मके

चाधिदैवतम् ऋक्सामे वाक्प्राणाद्यात्मके चाध्यात्ममनुकम्प्याह- तस्यर्क् च साम च

गेष्ण्यौ इत्यधिदैवतम्, तथाध्यात्ममपि यावमुष्य गेष्णौ तौ गेष्ण्यौ इति । तच्च सर्वात्मन

एवोपपद्यते । तद् य इमे वीणायां गायन्त्येवं ते गायन्ति तस्मात्ते घनसमयः । (छा०

उ० १।७।६) इति - व लौकिकेष्वपि गायनेष्वस्यैव गीयमानत्वं दर्शयति (ब्र०

सू० १/१/२२ शा० भा० ) ।
 

 
गोचरः, गोचर
१ . ज्ञानमात्रविषयः । यथा - अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।

आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये (वे० सा० म० श्लो०) । इत्यद्वैतवेदान्तिनः ।

२. जन्यज्ञानविषयत्वम् । यथा - घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः

(भा० प० ५४) । एवं गन्धरूपरसादीनां गोचरत्वम् । इति नैयायिका । ३. ग्रहाणां

गतिविशेषस्तथा सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणं चेति ज्योतिर्विदः ।
 
-
 

 
गौणः - , गौण
१. गुणवृत्त्या प्रयुक्तः शब्दः । मुख्या शब्दवृत्तिः अमिधा अमुख्या

वृत्तिः लक्षणा सा च गौणी । गुणवृत्त्या उपचारवृत्त्येत्यर्थः । गौणश्चेन्नात्मशब्दात्

(ब्र० सू० १।१।६) इति सूत्रे यथा - तत्र यदि प्रधानमचेतनं गुणवृत्येक्षितृ कल्प्येत

(शा० भा०) ।२. अमुख्य: अप्रधानश्च । यथा गां दोग्धि पयः इत्यत्र गौरप्रधानं कर्म ।

अत्रोक्तम् – गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् । ३. गौणी वृत्तिः लक्षणा -

लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता (का० प्र० २ उ०) । यथा - अग्निर्माणवकः

इत्यादौ ।
 

 
गौणसंन्यासी- , गौणसंन्यासिन्
अत्यागी कर्मफलत्यागित्वेऽपि कर्मानुष्ठाता अज्ञः । यथा-

अनिष्टं नरकतिर्यगादिरूपम्, इष्टं देवतादिरूपम्, मिश्रं मानुषभाव इति । कर्मणः

कर्मजातीयस्य फलं त्रिविधं प्रेत्य मरणान्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां

भवति । मुख्यसंन्यासिनां तु न क्वचिदपि भवति (गी० १८/१२ नी० क०) । अत्यागिनां

कर्मफलत्यागित्वेऽपि कर्मानुष्ठायिनामज्ञानां गौणसंन्यासिनां प्रेत्य विवदिषापर्यन्तं

सत्त्वशुद्धेः प्रागेव मृतानां पूर्वकृतस्य कर्मणः फलं शरीरग्रहणं भवति । मायामयं फल्गुतया

लयमदर्शनं गच्छतीति निरुक्तेः । कर्मण इति जात्यभिप्रायकमेकवचनमेकस्य

त्रिविधफलत्वानुपपत्तेः । तच्च फलं कर्मणस्त्रिविधत्वात् त्रिविधं पापस्यानिष्टं प्रतिकूल