This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१७५
 
पाणिनिसूत्रव्याख्याने द्रष्टव्यम् । ६. शमदमादयो गुणा इति योगशास्त्रविदः । ७.

विग्रहादयः षड्गुणाः नीतिशासनज्ञाः ।.८. शौर्यचातुर्द्यादयो गुणाः इति व्यवहारविदः ।

९. माधुर्यौज प्रसादा: श्लेषादयश्चेति आलङ्कारिकाः । १०. ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि

आत्मनो गुण इति वैष्णवशैववेदान्तिनः । यथा - ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणः

आत्मन एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् । वेदप्रतिषेधश्च भवति । चतुर्षु वेदेषु

परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् । तस्मादसङ्गतैषा

कल्पनेति सिद्धम् (ब्र० सू० २/२/४५ शा० भा०) ।
 
-
 

 
गुरुः - , गुरु
ज्ञानदाता । गुशब्दस्त्वन्धकारः स्याद् रुशब्दस्तन्निरोधकः । अन्धकार-

निरोधित्वाद्गुरुशब्दः स उच्यते । यथा- अयमधिकारी जननमरणादिसंसारानलतप्तो

दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति ।

समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्यादिश्रुतेः (वे० सा० अ० प्र०) ।
 
-
 
गुहा –

 
गुहा, गुहा
१ . आकाशः । यथा - गुहायां व्योम्नीति वा समानाधिकरण्यादव्याकृता-

काशमेव गुहा (तै० उ० ब्र० व० १।१ शा० भा०) । २. बुद्धिः । यथा - गुहां गुहायां

बुद्धौ प्रविष्टौ (का० उ० ३।१ ) । यथा च - गुहाहितं गुहायां बुद्धौ स्थितं

तत्रोपलम्भात् (तत्रैव २ । १२ शा० भा०) । यथा च - ऋतपानेन जीवात्मा निश्चितोऽस्य

द्वितीयता । ब्रह्मणैव स्वरूपेण न बुद्ध्या विरूपया । प्रथमं सद्वितीयत्वे ब्रह्मणावगते

सति । गुहाश्रयत्वं चरमं व्याख्येयमविरोधतः । गौः सद्वितीयेत्युक्ते सजातीयेनैव

गवान्तरेणावगम्यते न तु विजातीयेनाश्वादिना । .... तदेवं ऋतं पिबन्तौ इत्यत्र

प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद् व्याख्येयम् ।

बहुलं गुहाश्रयत्वं श्रुतयः आहुः । तदिदमुक्तम्- तत्तदर्शनादिति । तस्य ब्रह्मणो

गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति (ब्र० सू० १/२/११ भा०) । ३. शरीरं हृदयं वा ।

यथा - यदि शरीरं गुहा यदि वा हृदयमुभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते

(ब्र० सू० १ ।२।१ शा० भा०) । ४. देहः, शरीरम्, प्राणाश्च । यथा- देहादभ्यन्तरः

प्राणः प्राणादभ्यन्तरं मनः । ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा (प०

द० ३।२ ) ।
 
-
 
-
 
-
 

 
गूढः, गूढ
अज्ञानावृतःपरमात्मा । यथा - स सर्वभूतेषु गूढप्रकाशमानचित्स्वभावोऽपि

शब्दाद्याकाराभी रागादिगर्भाभिर्बुद्धिवृत्तिभिः सङ्करात् सर्वभूतेषु वर्तमानोऽपि यथावन्न

भासत इति गूढ इत्यर्थः (सं० शा० ३/१८३ अ० टी०) ।