This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
-
 
गन्धर्वनगरम् - नीररहिते साभ्र आकाशे सायं किञ्चित्सौरालोके प्रासादादि-
मण्डितं नगरमिव दृश्यं दृष्टिपथमायाति तदेव गन्धर्वनगरमित्युच्यते । मृगमरीचिकावद्
इदं भ्रमः । यथा - एतन्नाम कल्पितनगरम्, यथा च प्रसारितपण्यापणं गृहप्रासादस्त्री-
पुंजनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सदकस्मादभावतां गतं दृष्टम्
(मा० उ० गौ० पा० का० २।३१ शा० भा०) । यथा च - द्विचन्द्रालातचक्रगन्धर्वनगरादि-
विभ्रमाः समुद्दिष्टप्रयोजना भवन्ति (ब्र० सू० २।१।३३ भा० ) । यथा - स्वप्नमाये
यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः (मा० उ०
गौ० पा० का० २।३१) । यथादर्श तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु
परीदृश्यते तथा गन्धर्वलोके छायातपयोरिव (क० उ० २।६।५) । प्रसादमालाविततां
स्तम्भैः काञ्चनसन्निभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम् (वा०रा०स०का ०
२।५१) । असत्तु मृगतृष्णावद् गन्धर्वनगरं यथा (पा० म० भा० ४।१।३)।
यस्त्वकारणको भाति न स्वभावो विजृम्भते । सर्वरूपेण सङ्कल्पगन्धर्वनगरादिवत्
(यो० वा० ६।५४।१६) ।
 
१७४
 
-
 
गन्धर्वपुरी - गन्धर्वनगरशब्दस्येवार्थः । अस्या अधिष्ठानं सौरालोकादि । यथा-
तत्र सौरालोकादिकं सदधिष्ठानमिति भावः (ब्र० सू० १/१/१ क० त० प० ) ।
 
-
 
-
 
-
 
गुणः १. देहेन्द्रियान्तःकरणमहङ्कारास्पदम् । यथा- मधुसूदनस्तु गुणाः
देहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि । कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानि ।
गुणकर्मेति द्वन्द्वैकवद्भावः । विभज्यते सर्वेषां जडानां भासकत्वेन पृथग्भवतीति
विभागः स्वप्रकाश ज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वन्द्वः । तयो-
र्जडाजडयोस्तत्त्वं यो वेत्ति स गुणाः गुणेषु वर्तन्त इति मत्वा गुणविभागे कर्मविभागे
च न सज्जत इति योजना (गी० २।२८ नी० क० ) । यथा च गुणाः कारणात्मका
गुणेषु विषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्ति न करोति (तत्रैव
शा०भा०) । यथा च गुणैरहङ्कारादिभिः (गी० ३।२९ नी० क० ) । २. सत्त्वं रजस्तम
इत्येवं नामानो गुणा इति पारिभाषिकः शब्दो न रूपादिवद् द्रव्याश्रिताः (गी० १४/५
शा० भा०) । यथा च सत्त्वंरजस्तम इत्येवं नामानो गुणा नित्यपरतन्त्राः पुरुषं प्रति
सर्वेषामचेतनानां चेतनार्थत्वात् । न तु वैशेषिकानां रूपादिवद् द्रव्याश्रिताः । न
च गुणगुणिनोरन्यत्वमत्र विवक्षितम् । गुणत्रयात्मकत्वाप्रकृतेः (तत्रैव म० सू०) ।
३. सत्त्वरजस्तमांसि इति साङ्ख्यविदः । ४. रूपरसगन्धादयश्चतुर्विंशतिर्गुणाः इति
नैयायिकाः। ५. अदेगुणः तथा वस्तुधर्मः इति वैयाकरणा वोतोगुणवचनादिति