This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१७३
 
गतव्यथः
 
, गतव्यथः
क्षमाशीलत्वात् उत्पन्नज्ञानाद्वा दुःखावसरे प्राप्तेऽपि व्यथारहितः
 

पीडाशून्यः । यथा - गतव्यथो गतभयः (गी० २।१६ शा० भा०) अत एव गता

व्यथा चेतः पीडा यस्य स गतव्यथः (तत्रैव नी० क०) । गतव्यथः परैस्ताड्यमानस्यापि

गता नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायामपि व्यथायामनपकर्तृत्वं क्षमित्वम् ।

व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः (तत्रैव म० सू०) । ताडितु-

मुद्यतादपि व्यथानिमित्तं गतं भयं यस्मात् (तत्रैव भाष्यो०) । गतव्यथः आधिशून्यः

(तत्रैव श्रीधरी) ।
 
-
 
-
 

 
गतिः - , गतिः
देवयानम्, पितृयानम्, शुक्ला, कृष्णा, उत्तरायणं, कृष्णायनं

देवपथ: ब्रह्मपथ इत्यादि । देवयानेन पथा, शुक्लया गत्या, तथोत्तरायणे

शरीरपातेन जीवा अनावृत्तिं लभन्ते । यथा - ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा

श्रुतौ - अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त

एतद्वै प्राणानामायतनमेतदमृतमयमेतत्परायणमेतस्मान्न पुनरावर्तते (प्र० १ । १ ) इति ।

स्मृतावपि - अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म

ब्रह्मविदो जनाः (गी० ८।२४) । .... इत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं

तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं

मानवमावर्तं नावर्तन्ते (छा० ४/१५/५) । इति तदिह ब्रह्मविद्विषयया प्रसिद्धया

गत्याक्षिस्थानस्य ब्रह्मत्वं निश्चीयते (ब्र० सू० १ । २।१६ शा० भा० ) । यथा च -

आचार्येण ये सुखं ब्रह्माक्षिस्थानसंयवामं वामनीभामिनीत्येवं गुणकं प्राणसहित-

मुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः अचिषमर्चिरभिमानिनीं

देवतामभिसम्भवन्ति प्रतिपद्यन्ते । अर्चिषोऽहरहर्देवताम् अह्नः आपूर्यमाणपक्षं शुक्ल-

पक्षदेवतां ततः षण्मासान् येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं

तद्देवतां प्रतिपद्यन्ते तेभ्यो मासेभ्यः संवत्सरदेवतां तत आदित्यमादित्याच्चन्द्रमसं

चन्द्रमसो विद्युतं तत्र स्थितानेतान् पुरुषः कश्चिद् ब्रह्मलोकादवतीर्यामानवोऽमानव्यां

सृष्टौ भवः ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान् सत्यलोकस्थितं कार्यं

ब्रह्म गमयति (ब्र० सू० १/२/११, १५, १६ शा० भा० ) । यथा च अथ यः

एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गाः यदिदं दन्दशुकम् (बृ० उ० ६।२।१६) ।

इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनान् अन्त-

र्भावयति । स्मृतिरपि- शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया

यात्यनावृत्तिमन्ययावर्तते पुनः (गी० ८।२६) (ब्र० सू० ३।३।३१ शा० भा०) ।
 
--