This page has been fully proofread once and needs a second look.

१७२
 
शाङ्कुरवेदान्तकोशः
 
यथा च–बाह्यास्तित्ववादिनोः सौत्रान्तिकवैभाषिकयोः सत् शुक्तिकाशकलादिकमधिष्ठानम् ।

तन्नास्तित्ववादिनो योगाचारस्य तु अविद्याकल्पितं तदधिष्ठानम् (तत्रैव परि०) ।

२. असत्ख्यातिः । इदं मतं माध्यमिकशून्यवादिनाम् । अस्मिन्मते सर्वमसदिति कृत्वा

असत एव ख्यातिः । ३. अख्यातिः, विवेकाख्यातिः विवेकाग्रहश्च । इदं मतं

गुरुप्राभाकरमीमांसकानाम् । अत्र मते सर्वं ज्ञानं यथार्थमिति मत्वा भ्रमो नास्त्येव शुक्तौ

रजतमिति स्थले प्रत्यक्षात्मकं स्मरणात्मकं ज्ञानद्वयं मन्यते । अतः अख्यातिः ।

४. अन्यथाख्यातिः । इदं मतं नैयायिकवैशेषिकाणाम् । अन्यगुणानामन्यत्र प्रतीतिः

अन्यथाप्रतीतिरित्यर्थः । ५. अनिर्वचनीयख्यातिः । इदं मतं श्रीशाङ्करमतानुयायिनाम् ।

भ्रमस्थले सद्रूपेण असद्रूपेण सदसद्रूपेण सदसदुभयाभावरूपेण वानिर्वक्तुमशक्यत्वाद्

अनिर्वचनीयख्यातिरुच्यते । ६. यथार्थख्यातिः । इदं मतं श्रीरामानुजाचार्यानुयायिनाम् ।

अत्र मते पञ्चीकरणप्रक्रियया सर्वत्र सर्वभूतानां स्थित्या शुक्तौ रजतं यथार्थमेव ख्यायते ।

७. सदसदख्यातिः । इदं सांख्ययोगदर्शनस्य । श्रीविज्ञानभिक्षुणा सदसत्ख्याति-

र्बाधाबाधात् इति सांख्यसूत्रे ५/५६ । सूत्रे एवमर्थः कृतः - स्वरूपेण सतः संसर्गतः

अवस्थारूपेण अध्यस्तरूपेण वा असतो वस्तुनः प्रतीतिः सदसत्ख्यातिः ।

व्याकरणदर्शनेऽपीयमेव ख्यातिरिति श्रीनागेशभट्टेनोदीरितम् । ८. अपूर्णख्यातिरूपा

अख्यातिः । इदं प्रत्यभिज्ञादर्शनस्य । प्राभाकराभिमतायाः अख्यातेरेवैकं रूपम् । ९.

अभिनवान्यथाख्यातिः । इदं श्रीमाध्वमतानुयायिनाम् । इत्थं व्याख्यायते यत् सत्यां

शुक्तौ असतो रजतस्य भानम् इति । न्यायवैविशेषिकात् कश्चन भेदोऽतोऽभिन-

वान्यथाख्यातिरुच्यते । १०. सत्ख्यातिः । इदं श्रीमद्भागवतटीकाकर्तुः श्रीबंशीधर-

स्वामिनः । सदेव सौम्येदमग्र आसीद् इतिश्रुत्यनुसारं सर्वं सर्वत्र सदेव भासते ।

११. प्रसिद्धख्यातिः । इदं चार्वाकप्रभृतीनाम् । न्यायभूषणग्रन्थे विवेचितेयं ख्यातिः ।

१२. अलौकिकार्थख्यातिः। श्रीमदुम्बेकमट्टेन श्लोकवार्त्तिके विवेचितेयं ख्यातिः ।

१३. स्मृतिप्रभोषख्यातिः । इयमपि श्रीमदुम्बेकभट्टेन तत्रैव विवेचिता ।

१४. निर्विषयख्यातिः । श्रीबेङ्कटदेशिकेन न्यायपरिशुद्धौ विवेचितेयं ख्यातिः । एतासां

चतुर्दशख्यातीनां स्वरूपं परिशीलनं च मदीये चतुर्दशख्यातिविवेकग्रन्थे सविशदं

द्रष्टव्यम् ।
 

पूर्वोक्तैः प्रसिद्धैराचार्यैरेतासां ख्यातीनां विषये स्वस्वसिद्धान्तानुसारं खण्डनं

मण्डनं च कृतमस्ति । स्वामिश्रीशङ्करचैतन्येन दर्शनसर्वस्वग्रन्थे विज्ञानवादस्य

शून्यवादस्य काश्मीरकसंवित्सिद्धान्तस्य च विमर्शनपूर्वकमनिर्वचनीयवादस्य महत्त्वं

सुसंस्थापितम् ।
 
*