This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१७१
 
-
 
-
 
कम् (छा० उ० ४/१०/५) । यथा च कुतरेतद् विशेषितौ तु कं खं शब्दौ सुखात्मकं

ब्रह्म गमयतः (ब्र० सू० १ /२/१५ शा० भा०) । अतो विनिगमकवाक्यमुपक्रमानुरोधात्

प्राणं हिरण्यगर्भाख्यं कार्यं ब्रह्म तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येदर्थकमिति

न विरोध इत्यपि द्रष्टव्यम् । (तत्रैव क० त०) यथा च - तन्माभूदित्युभयोः कं खं

शब्दयोर्ब्रह्म शब्दशिरस्त्वं कं ब्रह्म खं ब्रह्म इति । ... तदेवं वाक्योपक्रमे सुखविशिष्टं

ब्रह्मोपदिष्टम् (ब्र० सू० १ /२/१५ शा० भा०) । यथा च - एवं खं पदस्यापि ब्रह्मपदं

शिरो ययोः कं खं पदयोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् (तत्रैव भाम० ) ।

यथा च - खं ब्रह्म (बृ० आ० उ० ५/१/१) । २. आकाशः । यथा - खं पुराणं

चिरन्तनं खं परमात्माकाशमित्यर्थः (तत्रैव शा० भा० ) । यथा च - सैषा भार्गवी

वारुणी विद्या परमे व्योमन् प्रतिष्ठिता (तै० उ० ३।६) । ॐ कं ब्रह्म खं ब्रह्म (छा०

४।१०।५) । खं पुराणम् (बृ० आ० उ० ५1१1१) । इति चैवमादौ वाक्योपक्रमेऽपि

वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद् युक्ता ब्रह्मविषयावधारणा । .. तस्मादाकाश-

शब्दो ब्रह्मेति सिद्धम् (ब्र० सू० १ । १ । २३ शा० भा० ) । ३. इन्द्रियम् । यथा -

पराञ्चि परागच्छन्तीति खानि स्वोपलक्षितानि श्रोत्रादीनि इन्द्रियाणि खानि इत्यु

(का० उ० ३ शा० भा० ) ।
 
-
 
-
 

 
ख्यातिः - , ख्याति
ख्याप्रकथने धातोः निष्पन्नः ख्यातिशब्दः प्रकथनार्थः तथा

प्रसिद्धार्थकः । किन्तु दर्शनग्रन्थेषु ख्यातिशब्दार्थो भ्रमो विभ्रमो वा । यथा शुक्तौ

इदं रजतमिति भ्रमः । तत्र प्रतिदर्शनं विभ्रमप्रकाराः भिन्नाः भिन्नाः । तदर्थमाचार्य-

मण्डनमिश्रेण विभ्रमविवेकनामको ग्रन्थो व्यरचि । तस्यादिमोऽयं श्लोकः-

आत्मख्यातिरसत्ख्यारख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात्सा

विविच्यते (वि० वि० १) । श्रीमद्भागवतस्य योगानामात्मसंरोधः (११।१६।२७)

इति श्लोकस्य टीकायां श्रीबंशीधरस्वामिना ख्यातिपञ्चकानां निर्देशः कृतः-

आत्मख्यातिरसत्ख्यातिरख्यातिख्यातिरन्यथा । तथानिर्वचनीयख्यातिरित्येतत् ख्याति-

पञ्चकम् । तदा मुख्यतया पञ्च ख्यातयः परिगणिताः । किन्त्ववान्तरभेदेन चतुर्दश

ख्यातयो भवन्ति । १. आत्मख्यातिः विज्ञानवादिबौद्धानां सौत्रान्तिकबौद्धानां

वैभाषिकबौद्धानां च । अत्र आत्मशब्दो विज्ञानपरः एतेषु त्रिष्वपि मतेषु आरोप्यांशे

एकरूपता अधिष्ठानांशे च मतभेदः । यथा - सौत्रान्तिकनये तावद् बाह्यमस्ति सत् ।

तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनां यद्यपि न बाह्यमस्ति वस्तु सत् । तथाप्यनाद्यविद्या-

वासनारोपितमलीकं बाह्यम् । तत्र ज्ञानाकारस्यारोपः (ब्र० सू० अध्यासभाष्ये भाम०) ।
 
-