We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

शावेदान्तकोशः
 
करणसहितं भोगायतनं शरीरं हे कौन्तेय क्षेत्रमित्यभिधीयते । सस्यस्येवास्मिन्नसकृत्कर्मणः
फलस्य निवृत्तेः (तत्रैव म० सू० ) । इदं शरीरं कौन्तेय क्षतात् त्राणात् क्षेत्रम् ।
क्षिणोत्यात्मानमविद्यया त्राति तं विद्यया । क्षीयते नश्यति क्षरति अपक्षीयतेऽतोऽपि
क्षेत्रमित्यभिधीयते । क्षेत्रवदस्मिन् कर्मफलं निष्पद्यते इति वा । यथा कुन्ती
त्वत्प्रादुर्भावस्थानत्वात् क्षेत्रं तथाऽत्मनोऽभिव्यक्तिस्थानत्वादपि इदं क्षेत्रमिति
सम्बोधनाश्रयः । अनेन शरीरस्य आत्मनोऽन्यत्वं बोधितम् । क्षेत्रशब्दादुपस्थितमिति
पदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यात् क्षेत्रमित्येवमनेन क्षेत्रशब्देनाभिधीयते कथ्यत
इत्यर्थः (तत्रैव भाष्यो०) । इदं भोगायतनं शरीरं क्षेत्रमित्यभिधीयते संसारस्य
प्ररोहभूमित्वात् (तत्रैव श्रीधरी) ।
 
१७०
 
क्षेत्रज्ञः - जीवः परमात्मा च । यथा - क्षेत्रज्ञः परमात्मेति नाममात्रभेदात् ( ब्र०
सू० १/४/२२ शा० भा० भाम० चाधिकम् ) । यथा च सर्वसंसारधर्मातीतो
ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः । अनश्नन्नन्योऽभिचाकशीत्यनश्नन्नन्योऽभिपश्यति ज्ञः
इति वचनात् तत्त्वमसि क्षेत्रज्ञं चापि मां विद्धि इत्यादिश्रुतिस्मृतिभ्यश्च (ब्र० सू०
१ । २ । १२ शा० भा०) । यथा च - एतच्छरीरं क्षेत्रं यो वेत्ति विजानाति आपादतलमस्तकं
ज्ञानेन विषयीकरोति स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागस्तं
वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति (गी० १३।१ शा० भा० ) । यथा च - एतद्
यो वेत्ति भासयति तं चिदात्मानं क्षेत्रज्ञ इत्यन्वर्थसंज्ञं प्राहुः । के प्राहुः तद्विदः
क्षेत्रक्षेत्रज्ञविदः (तत्रैव नी० क०) । यथा च - एतद्द्यो वेत्ति अहं ममेत्यभिमन्यते तं
क्षेत्रज्ञमिति प्राहुः कृषीवलवत्तत्फलभोक्तृत्वात् (तत्रैव म० सू०) । एतच्छरीरं क्षेत्रं यो
वेत्ति आपादतलमस्तकं मनुष्योऽहं ममेदं शरीरमिति स्वाभाविकेन शरीरं नात्मा
दृश्यत्वात् घटवदित्यौपदेशिकेन स्वातिरिक्तेन वा ज्ञानेन जानाति विषयीकरोति तं
तद्विदस्तौ क्षेत्रक्षेत्रज्ञौ दृश्यत्वेन द्रष्टृत्वेन विदन्तीति तथा तं क्षेत्रज्ञ इति प्राहुः क्षेत्रज्ञ
इत्येवम् (भा० उ०) (तत्रैव भा० उ०) । यथा च - एतद् यो वेत्ति अहं ममेति मन्यन्ते
तं क्षेत्रज्ञ इति प्राहुः । कृषीवलवत् तत्फलमोक्तृत्वात् (तत्रैव श्रीधरी) ।
 
-
 
क्षेमः – प्राप्तस्य रक्षणम् । यथा - अनुपात्तोपादानं योग: । उपात्तस्य रक्षणं क्षेमः
(गी० २।४५ शा० भा०) । यथा च - प्राप्तरक्षणं क्षेमः (तत्रैव नी० क०) ।
 
-
 
-
 
खम् - १. ब्रह्म । यथा- उच्यते प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इत्येतदग्नीनां
वचनं श्रुत्वोपकोशल उवाच तत्रेदं प्रतिवचनम् । यद्वा कं तदेवं खं यदेव खं तदेव