This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
क्षण:
 
, क्षण
सूक्ष्मतमः कालखण्डः । निमेषक्रियावच्छिन्नकालस्य चतुर्थो भागः

क्षणः । अधिकं तु न्यायग्रन्थेष्ववलोकनीयम् ।
 
-
 

 
क्षणिकत्वम् - , क्षणिकत्व
१ . (क) तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । प्रथमक्षणे उत्पद्यते,

द्वितीयक्षणे तिष्ठति तृतीयक्षणे नश्यतीत्यभिप्रायः । (ख) योग्यविभुविशेषगुणानां

ज्ञानादीनामपेक्षाबुद्धिव्यतिरिक्तानां क्षणिकत्वम् ।
 
-
 

 
क्षमा- , क्षमा
क्षमाकृष्टस्य ताडितस्य वाविकृतचित्तता (गी० १०४ शा० भा०) ।

क्षमा आक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता (तत्रैव म० सू०) ।
 

 
-
 

 
क्षरः, क्षर
विनाशी । सर्वं भूतजातं क्षरणशीलम् । जीवोऽपि ब्रह्मप्रतिबिम्बभूतः

उपाधिनाशमनुनाशशीलः क्षरः । यथा क्षरश्च क्षरतीति क्षरो विनाशी (गी० १५/१६

शा० भा० ) । क्षरो विनाशी स च सर्वाणि भूतानि प्राणवन्ति कर्मक्षये

सुप्तिलयकैवल्यादावुपाधिनाशमनुविनाशशीलो जीवो ब्रह्मप्रतिबिम्बभूतो जलार्कोपमः

(तत्रैव नी० क०) । क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः (तत्रैव म० सू०) ।

क्षरा सर्वाणि भूतानि सर्वं विकारजातं क्षरतीति क्षरो विनाशी कूटस्थः कूटो राशिरिव

स्थितः (तत्रैव भाष्यो०) । अत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि

शरीराणि अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धेः (तत्रैव श्रीधरी) । यथा च

अधिभूतं प्राणिजातमधिकृत्य भवतीति कोऽसौ क्षरः क्षरतीति क्षरो विनाशी भावो

यत् किञ्चिज्ञ्जनिमद् वस्त्वित्यर्थः (गी० ८।४ शा० भा०) । क्षरो भावो जनिमद्

वस्तु कर्मफलभूतं तत्साधनभूतं च तदधिभूतमित्युच्यते (तत्रैव नी० क०) । क्षरतीति

क्षरो विनाशी भावो यत् किञ्चिज्जनिमद् वस्तुभूतं प्राणिजातमधिकृत्य

भवतीत्यधिभूतमुच्यते (म० सू०) । क्षरो विनश्वरो भावो देहादिपदार्थो भूतं

प्राणिमात्रमधिकृत्य भवत्यधिभूतमुच्यते (तत्रैव श्रीधरी) ।
 
-
 

 
क्षेत्रम्- , क्षेत्रम्
क्षरणशीलं विनाशशीलं शरीरम् । अथवा अविद्यया आत्मानं

क्षिणोति विद्यया च त्रायतेऽतः शरीरं क्षेत्रम् । यथा - क्षतत्राणात् क्षयात् क्षरणात्

क्षेत्रवद् वास्मिन् कर्मफलनिवृत्तेः क्षेत्रमिति । इति शब्द एवं शब्दपदार्थकः (गी० १३।१

शा० भा०) । यथा च - क्षयो नाशः क्षरणमपक्षयः यथा क्षेत्रे बीजमुप्तं फलति तवदित्याह-

क्षेत्रवद्वेति । क्षेत्रपदादुपस्थितमिदं पदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यादित्याह इति शब्द

इति । क्षेत्रमित्येवमनेन क्षेत्रशब्देनेत्यर्थः (तत्रैव आ० गि०) । इदमनात्मत्वेन भास्यं

घटाद्यहङ्कारान्तं शरीरं विशरणधर्मिं । हे कौन्तेय क्षेत्रं क्षिणोत्यात्मानमविद्यया त्रायते

विद्ययेति क्षेत्रं कर्मवीजप्ररोहस्थानं क्षेत्रशब्देनोच्यते (तत्रैव नी० क०) । इदमिन्द्रियान्तः
 
-