This page has been fully proofread once and needs a second look.

१६८
 
शाङ्करवेदान्तकोशः
 
(ब्र० सू० १/२/१ शा० भा०) । क्रतू अध्वरसङ्कल्पाविति निघण्टुः (तत्रैव क० त०

प०) । तत्प्रधानस्तन्मय इति । मयड् विकारप्राचुर्यप्राधान्यादिष्विति केचन वैयाकरणाः

पठन्ति । मयडर्थो मनोवच्छिन्नतया तद्विकारो जीव इति स एव सर्वनामार्थो

भवेदिति भावः । .... तत्क्रतुन्यायः सर्वगुणविषयः क्रतूपासकप्राप्त्यर्हगुणविषयः (तत्रैव

क० त० प०) । ६. श्रौतो यागः । यथा - अहं श्रौतकर्मभेदोऽहमेवाहं यज्ञः स्मार्तः

(गी० ९/१६ शा० भा०) । क्रतुयज्ञशब्दयोरपौनरुक्त्यं दर्शयन् व्याचष्टे श्रौत

इति । क्रियाकारकफलज्ञानं भगवदतिरिक्तं नास्तीति समुदायार्थ : (तत्रैव आ० गि०) ।

अहं क्रतुः श्रौतकर्मभेदोऽहमेव (तत्रैव भाष्यो०)।
 

 
क्रममुक्तिः - , क्रममुक्ति
कार्यब्रह्मेन्द्रादयः स्वस्वपदमध्यासीनास्तत्रैवोत्पन्नज्ञानाः हिरण्य-

गर्भेण सह क्रमशः परं पदं लभन्ते । इयमेव मुक्तिः क्रममुक्तिः । अपरे केचन ज्ञानोदये

सति सद्यः स्वस्वरूपानगतिं लभन्ते मुक्ताः भवन्ति । इयमेव सद्योमुक्तिः । यथा -

कार्यब्रह्मलोकप्रलयप्रत्युपस्थापने सति तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तस्तदक्षेण हिरण्य-

गर्भेण सहातः परं विष्णोः परमं पदं प्रतिपद्यन्त इति । इत्थं क्रममुक्तिरनावृत्त्यादि

श्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । नाञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युप-

पादितम् (ब्र० सू० ४।३।१० शा० भा०) ।
 
-
 
शास्त्रस्य
 
क्रिया -

 
क्रिया, क्रिया
१. करोतीति क्रिया व्यापारो भावनेत्यादि । ब्रह्म च न क्रियासाध्यं

केवलं ज्ञानसाध्यम् । यथा- किं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता

आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् (जै० सू० १ । २ । १ ) । इति क्रियापरत्वं

शास्त्रस्य
प्रदर्शितम् । अतो वेदान्तवाक्यानामानर्थक्यम्, अक्रियार्थत्वात् ।

कर्तृदेवताप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् उपासनादिक्रियान्तरविधानार्थत्वं वा ।

नहि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति (ब्र० सू० १ ।१।४ शा० भा०) ।२. भगवतः

श्रीकृष्णस्य अष्टगोपीषु वा अष्टमहिषीषु वा अष्टशक्तिषु एका क्रिया - विमला

उत्कर्षिणी ज्ञाना क्रिया योगा प्रह्ह्वी सत्या ईशाना चेति । आभिः सेवितया श्रीराधया

सह श्रीकृष्णो नित्यलीलाधाम्नि सदा निमग्नस्तिष्ठति (पद्मपुराणे २५६।१७–४७)।
 
-
 

 
क्लेशः, क्लेश
सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः

( स० द० सं० पा०) । क्लेशाः पञ्चविधाः - अविद्यास्मितारागद्वेषाभिनिवेशा:

(पा० यो० सू० २।३) ।