This page has not been fully proofread.

१६८
 
शाङ्करवेदान्तकोशः
 
(ब्र० सू० १/२/१ शा० भा०) । क्रतू अध्वरसङ्कल्पाविति निघण्टुः (तत्रैव क० त०
प०) । तत्प्रधानस्तन्मय इति । मयड् विकारप्राचुर्यप्राधान्यादिष्विति केचन वैयाकरणाः
पठन्ति । मयडर्थो मनोवच्छिन्नतया तद्विकारो जीव इति स एव सर्वनामार्थो
भवेदिति भावः । .... तत्क्रतुन्यायः सर्वगुणविषयः क्रतूपासकप्राप्त्यर्हगुणविषयः (तत्रैव
क० त० प०) । ६. श्रौतो यागः । यथा - अहं श्रौतकर्मभेदोऽहमेवाहं यज्ञः स्मार्तः
(गी० ९/१६ शा० भा०) । क्रतुयज्ञशब्दयोरपौनरुक्त्यं दर्शयन् व्याचष्टे श्रौत
इति । क्रियाकारकफलज्ञानं भगवदतिरिक्तं नास्तीति समुदायार्थ : (तत्रैव आ० गि०) ।
अहं क्रतुः श्रौतकर्मभेदोऽहमेव (तत्रैव भाष्यो०)।
 
क्रममुक्तिः - कार्यब्रह्मेन्द्रादयः स्वस्वपदमध्यासीनास्तत्रैवोत्पन्नज्ञानाः हिरण्य-
गर्भेण सह क्रमशः परं पदं लभन्ते । इयमेव मुक्तिः क्रममुक्तिः । अपरे केचन ज्ञानोदये
सति सद्यः स्वस्वरूपानगतिं लभन्ते मुक्ताः भवन्ति । इयमेव सद्योमुक्तिः । यथा -
कार्यब्रह्मलोकप्रलयप्रत्युपस्थापने सति तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तस्तदक्षेण हिरण्य-
गर्भेण सहातः परं विष्णोः परमं पदं प्रतिपद्यन्त इति । इत्थं क्रममुक्तिरनावृत्त्यादि
श्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । नाञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युप-
पादितम् (ब्र० सू० ४।३।१० शा० भा०) ।
 
-
 
शास्त्रस्य
 
क्रिया - १. करोतीति क्रिया व्यापारो भावनेत्यादि । ब्रह्म च न क्रियासाध्यं
केवलं ज्ञानसाध्यम् । यथा- किं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता
आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् (जै० सू० १ । २ । १ ) । इति क्रियापरत्वं
प्रदर्शितम् । अतो वेदान्तवाक्यानामानर्थक्यम्, अक्रियार्थत्वात् ।
कर्तृदेवताप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् उपासनादिक्रियान्तरविधानार्थत्वं वा ।
नहि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति (ब्र० सू० १ ।१।४ शा० भा०) ।२. भगवतः
श्रीकृष्णस्य अष्टगोपीषु वा अष्टमहिषीषु वा अष्टशक्तिषु एका क्रिया - विमला
उत्कर्षिणी ज्ञाना क्रिया योगा प्रह्ह्वी सत्या ईशाना चेति । आभिः सेवितया श्रीराधया
सह श्रीकृष्णो नित्यलीलाधाम्नि सदा निमग्नस्तिष्ठति (पद्मपुराणे २५६।१७–४७)।
 
-
 
क्लेशः – सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः
( स० द० सं० पा०) । क्लेशाः पञ्चविधाः - अविद्यास्मितारागद्वेषाभिनिवेशा:
(पा० यो० सू० २।३) ।