This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
१६७
 
प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः (पा० यो० ४।३४) । अत्र प्रतिप्रसवः

उत्पादराहित्यं निष्क्रियत्वं वा । इति साङ्ख्ययोगविदः ।
 

 
कोशः - , कोश
पञ्च कोशाः भवन्ति - आनन्दमयो विज्ञानमयो मनोमयः
 
-
 

प्राणमयोऽन्नमयश्च । यथा - इदमज्ञानं
व्यवह्रियते । .... ईश्वरस्येयं
 
समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च
 

व्यवह्रियते । ....
ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम्, आनन्द-
...
 

प्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः । ... इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता

विज्ञानमयकोशो भवति ।.... मनस्तु ज्ञानेन्द्रियैः सहितं सन् मनोमयकोशो भवति ।

इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत् प्राणमयकोशो भवति । अस्य

क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान्

कर्तृरूपः । मनोमयः क्रियाशक्तिमान् कार्यरूपः । अस्य (विराट्चैतन्यस्य) एषा

समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः । अस्य (विश्वस्य) अप्येषा व्यष्टिः
....

स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते (वे० सा०

अध्या० प्र०) । यथा च - "इदं त्विह वक्तव्यं स वा एष पुरुषोऽन्नमयः । तस्माद्

वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमय तस्मादन्योऽन्तर आत्मा प्राणमय

तस्मादन्योऽन्तर मनोमयः तस्मादन्योऽन्तर आत्मा विज्ञानमयः (तै० २।१-४) । इति

च विकारार्थे मयप्रवाहे सत्यानन्द एवाकस्मादर्द्धजरतीन्यायेन कथमिव मयटः

प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवार्णिकब्रह्माधिकारादिति चेत् न

अन्नमयादीनामपि ब्रह्मप्रसङ्गः । अत्राह - युक्तमन्नमयादीनामपि ब्रह्मत्वं

तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यात्मन उच्यमानत्वात् । आनन्दमयात्तु न कश्चिदन्य

आन्तर आत्मोच्यते । तेनानन्दमयस्य ब्रह्मत्वम् । अन्यच्च प्रकृतहानाप्रकृत-

प्रक्रियाप्रसङ्गादिति" (ब्र० सू० १/१/१९ शा० भा०) ।
 
....
 

 
क्रतुः
 
9.
, क्रतु
१. हिरण्यगर्भोपासना, उपासनायाः फलं हिरण्यागर्भं

पदम् (का० उ० २/११ शा० भा०) । २. सङ्कल्प: । ३. ध्यानम् । यथा-

क्रतुः सङ्कल्पो ध्यानमित्यर्थः (ब्र० सू० १/१/११, १ ।२।१ शा० भा०) । क्रतुः

सङ्कल्पो देवताध्यानरूपः (गी० ९/१६ नी० क०) । ४. अध्वरः यज्ञः । यथा -

क्रतू अध्वरसङ्कल्पाविति निघण्टुः । ५. यादृशं सङ्कल्पं कुर्वन् यादृशं च ध्यानं

कुर्वन् पुरुषः प्रैति तादृश एव जायते । यथा - अथ खलु क्रतुमयः पुरुषो

यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुर्भवति
 
-
 
-