2023-03-12 05:00:48 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
अद्वैतवेदान्तिमते नैयायिकोक्तमनुमानत्रैविध्यं नास्ति । अस्मिन्मते केवलम्
अन्वयिरूपमेकमेवानुमानम् । यतो हि अद्वैतवेदान्ते सर्वेषां धर्माणां ब्रह्मनिष्ठात्यन्ता-
भावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाधकत्वरूपकेवलान्वयित्वस्यासिद्धेः ।
यथा – तच्चानुमानम् अन्वयिरूपमेकमेव न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मन्मते
ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाधकत्वरूपकेवलान्वयित्व-
स्यासिद्धेः । नाप्यनुमानस्य व्यतिरेकिरूपत्वम् । साध्याभावे साधनाभावनिरूपित
व्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् । कथं तर्हि धूमादावन्वयव्याप्तिम-
विदुषोऽपि व्यतिरेकव्याप्तिज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत
एवानुमानस्य नान्वयव्यतिरेकिरूपत्वं व्यतिरेकव्याप्तिज्ञानस्यानुमित्यहेतुत्वात् (वे०
प० २ प०) । अस्मिन् मतेऽनुमाने त्रय एवावयवाः । यथा - न्यायो नामावयवसमुदायः ।
अवयवाश्च त्रय एव प्रसिद्धा:- प्रतिज्ञाहेतूदाहरणरूपाः । उदाहरणोपनयनिगमनरूपा
वा । न तु पञ्चावयवरूपाः । अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधि-
कावयवद्वयस्य व्यर्थत्वात् (वे० प० २ १०) । एवमेव मतं धर्ममीमांसकानामपि
यथोक्तं शास्त्रदीपिकायाम् ।
केशवः – कश्च ईशश्चेति केशौ ब्रह्ममहेश्वरौ तौ अवति प्रत्यवगच्छतीति केशवः
निरतिशयैश्वर्यवान् परमात्मा, यस्य ब्रह्मरुद्रावपि अनुकम्प्यौ । यथा - केशौ ब्रह्मरुद्रौ
सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निरतशयैश्वर्यप्रतिपादकेन
केशवपदेन सूचितम् (गी० १०/१४ म० सू०) । यथा च - केशव ब्रह्मादीन्
प्रत्यन्तर्यामितया गच्छतीति सः तस्य सम्बोधनं हे केशवेति (तत्रैव भाष्यो०)।
केशोड्रकः – करसम्मृदितलोचनरश्मिप्रसरे सति केशपिण्डज्ञानं जायते ।
इदमेव केशोड्रकभ्रम इति व्यवहियते ।
-
कैवल्यम् - १. एकत्वम्, मोक्षः अद्वितीयब्रह्मभावापत्तिश्च । यथा- कैवल्यं
वस्तुतोऽद्वितीयत्वमसङ्गत्वं च (सं० शा० ३/१८३ अ० टी०) । यथा च-
मिथ्याज्ञानावष्टम्भं हि कार्यान्तरं देहपात उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं
सम्यग् ज्ञानेन दग्धम्, इत्यतः साध्वेतदारब्धकार्यक्षये विदुषः कैवल्यमवश्यं
भवतीति । (ब्र० सू० ४/१/१९शा० भा०) । इत्यद्वैतवेदान्तिनः । २. (क)
आत्यन्तिकदुःखत्रयविनाशः । (ख) प्रकृतिपुरुषसंयोगविरहः । (ग) पुरुषस्य निर्लेपस्य
कैवल्येनावस्थानं कैवल्यम् (स०र० सं० पा०) । (घ) पुरुषार्थशून्यानां गुणानां