This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१६५
 
-
 
कृष्णः - पापकर्षक: भक्तदुःखकर्षकश्च । यथा - हे कृष्ण पापकर्षण मे मह्यं
ज्ञानार्थिने संन्यासं कर्मयोगं चेति द्वयं परस्परविरुद्धं शंससि कथयसि (गी० ५/१ नी०
क० ) । यथा च – हे कृष्ण सदानन्दरूप भक्तदुःखकर्षण इति वा (तत्रैव म० सू० ) ।
 
केवलः – १. सर्वमेकमेव ब्रह्मेति । यथा - केवलः दृश्यवर्जितः (ब्र० सू०
१ ।४।४ वे० क० त०) । इत्यद्वैतवेदान्तिनः । २. ज्ञानम् - यथा - तपः क्रिया-
विशेषादन्यमर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंस्पृष्टं केवलम् (स० द० सं०
आ० प्र० ) ।
 
-
 
केवलव्यतिरेकि – एतल्लिङ्गमनुमानं वा । १. (क) व्यतिरेकमात्रव्याप्तिकम् ।
(ख) यत्र व्यतिरेकव्याप्तिरेवास्ति तत् । (ग) साध्याभावसाधनाभावयोः साहचर्यं
व्यतिरेकस्तथा व्यतिरेकेणैव व्याप्तिर्यस्मिंस्तत् केवलव्यतिरेकि । एतच्च चतुर्धा भवति-
पक्षधर्मत्वम् विपक्षाद्व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति । अत्र
सपक्षाभावेन सपक्षसत्त्वं न भवति । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् ।
यदितरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलम् । तत्र गन्धवत्त्वं केवलव्यतिरेकि
( त० सं० ) । यथा च जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं न भवति
तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन्न भवति तस्मान्न
तथेति । एवमेवान्यदुदाहरणम् ।
 
-
 
केवलान्वयि - एतल्लिङ्गमनुमानं वा । १. (क) अन्वयेनैव व्याप्तिर्यस्मिंस्तत् ।
(ख) व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत् । (ग) अत्यन्ताभावा-
प्रतियोगिसाध्यकम् ।(घ) असद्विपक्षम् । अस्यार्थः-पक्षव्यापकम्, सपक्षे वर्तमानम्,
विपक्षशून्यम्, अबाधितविषयम्, असठप्रतिपक्षमिति । यथा घटोऽभिधेयः प्रमेयत्वा-
दित्यत्र प्रमेयत्वं केवलान्वयि ।
 
एवमेव अन्वयव्यतिरेकि लिङ्गमनुमानं वा । यथा अन्वयेन व्यतिरेकेण च
व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निरिति
अन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेक-
व्याप्तिः (त० सं०) । हेतुं साध्ययोर्व्याप्तिरन्वयव्याप्तिः । तदभावयोर्व्याप्तिर्व्यतिरेक-
व्याप्तिः (तत्रैव दी०) । यथा पर्वतो वह्निमान् धूमादित्यत्रान्वयव्यतिरेकव्याप्तिः ।
एतदनुमानत्रैविध्यं नैयायिकानां मते ।