2023-03-12 05:00:49 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
-
कृतम् – १ . पुण्यम् । यथा - तस्यात्मरतेः कृतेन कर्मणार्थः प्रयोजनं नास्ति ।
स्वर्गादौ लिप्साभावात् । मोक्षस्य चाक्रियासाध्यत्वात् । नास्यकृतः कृतेन इति श्रुतेः ।
अकृतो मोक्षः कृतेन कर्मणा नास्तीति श्रुत्यर्थः । अकृतेन विरुद्धकर्मणाप्यर्थो नरकादिरस्य
नास्ति । अत्र कृताकृतशब्दौ मित्रामित्रपदवत् परस्परविरुद्धार्थवाचितया पुण्यपापवचनौ
(गी० ३।१९ नी० क०) । (ख) तस्यात्मरतेः कृतेन कर्मणाभ्युदयलक्षणो निःश्रेयसलक्षणो
वार्थःप्रयोजनं नैवास्ति । तस्य स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च कर्मासाध्यत्वात् ।
तथा च श्रुतिः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति ।
अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेव
कारणेन सूचिता । आत्मरूपस्य हि निःश्रेयसस्य नित्यप्राप्तस्याज्ञानमात्रसमाप्तिः । तच्च
तत्त्वज्ञानमात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदो न किञ्चित् । कर्मसाध्यं
ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः (तत्रैव म० सू०) ।२. धर्मः । धर्मादधर्मात् तत्फलसुख-
दुःखाच्च कृतात् कार्यप्रपञ्चात् अकृतात् कारणात् अन्यत्र पृथग्भूतभूतादेः कालादन्यत्र
तेनानवच्छेद्यम् (ब्र० सू० १ ४ वे० क० त०) । ३- कर्म = कृतमिति कर्म उच्यते
तस्यान्तः परिसमाप्तिर्यत्र स कृतान्तः कर्मान्त इत्येतत् (गी० १८/१३ शा० भा० ) ।
कृतान्ते कृतस्य कर्मणोऽन्तः परिसमाप्तिर्यस्मिन् (तत्रैव नी० क०) । कृतमिति कर्मोच्यते
तस्यान्तः परिसमाप्तिस्तत्त्वज्ञानोत्पत्त्या यत्र तस्मिन् कृतान्ते (तत्रैव म० सू० ) ।
कृतस्य कर्मणोऽन्तः (तत्रैव भाष्यो०) तस्मिन् (सांख्ये) कृतं कर्म तस्यान्तः
परिसमाप्तिरस्मिन्निति कृतान्तस्तस्मिन् वेदान्तसिद्धान्त इत्यर्थः (तत्रैव श्रीधरी) ।
४ –कार्यप्रपञ्चः । यथा - कृतात् कार्यप्रपञ्चात् (ब्र०सू० १।४।४ वे०क०त० ) ।
-
-
कृपणः - आत्मज्ञानविहीनो यो लोकान्तरं गच्छति । यथा - यो वा एतदक्षरं
गार्ग्यविदित्वास्मांल्लोकात् प्रैति स कृपण: (बृ० उप० ३।८।१०) । यतोऽवरं कर्म
कुर्वागा दीनाः फलहेतयः फलतृष्णाप्रयुक्ता सन्तः । यो वा एतक्षरं गार्ग्य-
विदित्वाऽस्माल्लोकात् प्रैति स कृपण इति श्रुतेः (गी० २।४९ शा० भा० ) ।
ब्रह्मतत्त्वविप्रतिपन्ना द्वैतवादी । ये यथोक्तं परमार्थतत्त्वं प्रतिप्रन्नास्त एवाकृपणाः ।
लोके कृपणा एवान्य इत्याहुः । .... नाना वस्तु अस्त्येवं वदनं येषां ते पृथग्-
वादा द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः (मा० उ० मा० का०
४।९४ शा० भा०) ।
-
-
कृपणधीः - मन्दबुद्धिः शून्यवादिनः । यथा - मन्दबुद्धिः य इतरेतराध्यासे
शून्यताप्राप्तिं मन्यते स कृपणधीः मन्दबुद्धिरिति यावत् (सं०शा० ३।२४० अ०टी०) ।
.