This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
कूटस्थः – अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकारेण स्थितः
कूटस्थ उच्यते (प० ८०६ । २२ ) । सन्धयोऽखिलवृत्तीनामभावाश्चावभासिताः ।
निर्विकारेण येनासौ कूटस्थ इति चोच्यते (तत्रैव ८।२१) । द्विगुणीकृतचैतन्ये
जन्मनाशानुभूतितः । अकूटस्थं तदन्यत्तु कूटस्थमविकारतः (तत्रैव ८।२४) । कूटस्थः
कूटो राशिरिव स्थितः अथवा कूटो माया वञ्चना जिह्नता कुटिलतेति पर्यायाः अनेक-
मायादिप्रकारेण स्थितः कूटस्थ: (गी० १५/१६ शा० भा०) । कूटस्थो निर्विकारो
मायोपाधिरक्षरः (तत्रैव नी० क०) । कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तु-
प्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् (तत्रैव म० सू०) । कूटस्थ: कूटो राशिरिव स्थितः
कूटस्थः (तत्रैव भाष्यो०) कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्वपि निर्विकारतया
तिष्ठतीति कूटस्थश्चेतनो भोक्ता (तत्रैव श्रीधरी) । सज्ञानविज्ञानतृप्तात्मा कूटस्थोऽप्रकम्पो
भवति (तत्रैव ६।८ शा० भा०) । कूटस्थः सन्निधावपि विकारशून्यः (तत्रैव म० सू०) ।
अतः कूटस्थोऽप्रकम्प्यः केनापि शीतादिना चालयितुमशक्यो भवतीत्यर्थः (तत्रैव
भाष्यो०) । अतः कूटस्थो निर्विकारः (तत्रैव श्रीधरी) । कूटस्थं दृश्यमानगुणमन्तर्दोषं
वस्तु कूटं कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके । प्रकृते किं तदनृतं
कूटशब्दितमित्याशङ्क्याह- तथा चेति उक्तरीत्या कूटशब्दस्यानृतार्थत्वे यदनेकस्य
संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतं "तद्धेदं तर्ह्याव्याकृतं" "मायां तु प्रकृतिं "
"मम माया" इत्यादौ मायाशब्दिततया प्रसिद्धमविद्यादि तदिह कूटशब्दितमित्यर्थः
(तत्रैव आ० गि०) । वस्तुतोऽसदपि सदिवाभासमानं कूटम् । यथा कूटकार्षापणं
कूटतुलेति तद्वत् कूटः अहङ्कारः प्रतीच्यभेदेन भासमानत्वे सति कादाचित्कत्वाद्
यो यदभेदेन कदाचिद्भाति स तत्र मिथ्याकल्पितो यथा रज्जूरगस्तथा चायमहङ्कारो
मिथ्यात्वात् कूटसंज्ञस्तत्र तिष्ठति तद्भासकत्वेनेति कूटस्थं चैतन्यम् (तत्रैव नी०
क० ) । यद् मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति लोकैरुच्यते । यथा कूटः
कार्षापणः कूटसाक्षित्वमादौ अज्ञानमपि मायाख्यं सहकार्यभेदेन मिथ्याभूतमपि
लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्नाध्यासकेन सम्बन्धेनाधिष्ठानतया
तिष्ठतीति कूटस्थमज्ञानतत्कार्याधिष्ठानमित्यर्थः (तत्रैव म०सू०) । अव्यक्तत्वादेवाचिन्त्यं
कूटस्थं कूटे मायाप्रपञ्चे स्थितमधिष्ठानत्वेन स्थितम् (तत्रैव श्रीधरी) ।
 
-
 
-
 
कूटस्थनित्यम् - इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत् सर्वव्यापि सर्व-
विक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् (ब्र० सू० १ । १ ।४ शा० भा०) ।
कूटस्थनित्यमिति निर्वर्त्यकर्मतामपाकरोति (तत्रैव भाम० ) ।