This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
जन्यभावानां वृत्तिमत्त्वम् । नित्येषु च कालिकसम्बन्धेन न कस्यापि सत्त्वम् । कालिक

सम्बन्धस्तु स्वरूपादनतिरिक्त इत्यपि केचन मन्यन्ते । स च कालिकविशेषणताख्यः

सर्वाधारताप्रयोजकः । यथा कालस्यं गन्धादिसर्ववस्त्वाधारताप्रयोजकः कालिक-

सम्बन्धः । एवं दिक्कृतविशेषणतापि बोध्या । आकाशादिकं सदैवास्तीति व्यवहारात्

कालिकविशेषणताख्यसम्बन्धेनाकाशपरमाण्वादयो नित्या अपि काले वर्तन्ते । एव-

मेव दिग्विशेषणताख्यया सर्वाधारतानियामिकया जन्यमात्रं दिशि तिष्ठति ।
 
१६२
 
-
 

 
कालोपाधिः- , कालोपाधिः
क्षणदिवसादिव्यवहारविषयत्वनियामको धर्मः । स च जन्यमात्रं

क्रियामात्रं वा कालोपाधिः । तथा हि - १. स्वजन्यविभागप्रागभावावच्छिन्नं कर्म ।

२. पूर्वसंयोगावच्छिन्नविभागः । ३. पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावः ।

४. उत्तरसंयोगावच्छिन्नं कर्म । स्वजन्येत्यादेरर्थश्च - स्वं रविक्रिया तज्जन्यो विभागः

रविपूर्वदेशयोर्विभागस्तस्य प्रागभावः । स तादृशक्रियोत्पत्तिकाले तिष्ठति तदवच्छिन्नं

तदेव कर्म । अनेनोपाधिचतुष्टयेन क्षणचतुष्टयव्यवहार उपपद्यते इति नैयायिकाः ।

विशेषस्तु न्यायकोशे द्रष्टव्यः ।
 

 
कुटः - , कुट
घट: - यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात् कुटादिसाम्यम्

(ब्र० सू० २।४।१३) । कुटो घटः (तत्रैव वे० क० त०) । कुटो निवापोऽस्त्रीत्यमरः

(तत्रैव वे० क० त०) ।
 
.
 

 
कूटम् - , कूट
१ (क) बहिर्मनोहरमन्तर्दोषबहुलं वस्तु । यथा- दृश्यमानगुण-

मन्तर्दोषं वस्तुकूटं कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके (गी० १५/१६

आ० गि०) । (ख) कूटो माया वञ्चना जिह्नता कुटिलतेति पर्यायाः (गी० १५/१६

शा० भा०) । (ग) कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं

मायेत्यनर्थान्तरम् (तत्रैव म० सू०) । २. कूटः शिलाराशिः पर्वतः (तत्रैव श्रीधरी) ।

३. माया अविद्या वा । मायां तु प्रकृतिं मम माया इत्यादौ मायाशब्दिततया प्रसिद्धम-

विद्यादि तदिह कूटशब्दितमित्यर्थः (तत्रैव आ० गि०) । ३. अहङ्कारः । वस्तुतोऽसदपि

सदिवाभासमानं कूटम् । यथा कूटकार्षापणं कूटतुलेति तद्वत् कूटः अहङ्कारः प्रतीच्य

भेदेन भासमानत्वे सति कादाचित्कत्वाद् यो यदभेदेन कदाचिद् भाति स तत्र मिथ्या-

कल्पितो यथा रज्जूरगस्तथा चायमहङ्कारो मिथ्यात्वात् कूटसंज्ञः (तत्रैव नी० क०) ।

४. मिथ्याभूतं सत्यतया प्रतीयमानम् । यत् मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति

लोकैरुच्यते (तत्रैव म० सू०) । ५. राशिः । कूटो राशिः (गी० १५/१६ शा० भा०) ।