This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१६१
 
-
 
-
 
-
 
-
 
सहकारिकारणं कालः । यथा च - जलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः । सकलाः
कालयन् सर्वाः कालाख्यां लभते विभुः (वा०प० ३।९।१४) । अत्र हेलाराजव्याख्याने
विभुः परमात्मैव कालः । यथा - अनेनैतत् सूचयति विश्वात्मैक एव परब्रह्माभिधान:
सत्यो भावः स एव नानाविधः कार्यकारितयाऽनन्तशक्तित्वेन व्यवह्नियते । तथा च
क्रमिकांश्च चक्रवत् परावर्तमानान् भावान् प्रकाशयन् कालयति भूतानीति काल
इत्युच्यते । स विभुः स्वतन्त्रः अत एव स्वतन्त्रा शक्तिः काल इति वाक्यदीये (१३)
इत्यत्र सिद्धान्तितम् । ३. आत्मदेवता । यथा - शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य
दर्शनम् (वा०प० ३।९।६२ हे० रा० व्याख्याने) । ४. अद्वैतमते - अविद्या । यथा-
कालस्तु अविद्यैव तस्याः सर्वाधारत्वात् (सि० वि० ८ श्लो०) । अद्वैतब्रह्मसिद्धौ
प्रथममुद्गरे – कालस्याविद्यात्मकस्वीकारात् । .. मायैव काल इति वेदान्तिनः ।
५. बौद्धाः न किमपि कालतत्वमिति (वा० प०३/५७ का० तथा अस्या व्याख्याने) ।
६. विवेकसाक्षात्कारान्तरायो मेधाख्यस्त्रुटिविशेषः काल इति सांख्या आहुः (वाच०)
स च अकाशेऽन्तर्भवति (सा० कौ०) ।७. काल: द्रव्यम् । यथा - अतीतादिव्यवहारहेतुः
कालः । स चैको विभुर्नित्यश्च (त० सं० ) । ८. शब्दतन्मात्रपरिणामः कालः इत्याहुः ।
(ल० म० लका० प्र०) येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः ।
तस्यैव कयाचित् क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया
आदित्यक्रियया तथैवासकृदावृत्तया मास इति संवत्सर इति च भवति (पा० म०
भा० २/२/५) । इति शाब्दिकाः । षडिन्द्रियवेद्यः काल इति प्राभाकरमीमांसकाः ।
अधिकं च मम श्रीशङ्कराप्रागद्वैतवादग्रन्थे आचार्यभर्तृहरिनामकेऽध्याये ।
 
-
 
कालात्ययापदिष्टः - कालातीतः । कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोप-
दिश्यमानस्यात्ययः स कालात्ययापदिष्टः कालातीतः । अथवा कालस्य साधनकाल-
स्यात्ययेऽभावेऽपदिष्टः प्रयुक्तो हेतुः । अयं हेत्वाभासः । यथा - अग्निरनुष्णः
कृतकत्वात् । अत्र कृतकंत्वं हेतुः कालात्ययापदिष्ट: । अत्र साध्यस्य अनुष्णत्वस्य
त्वगिन्द्रियप्रत्यक्षेणाभावपरिज्ञानम् । बाधितपदवदस्यार्थः । यथा - कालात्ययापदिष्टाश्च
हेत्वाभासाश्च पञ्चधा (भा०प० ७२) ।
 
-
 
कालिकविशेषता- स्वरूपसम्बन्धविशेषः । कालिकपदवदस्यार्थः ।
 
-
 
कालिकसम्बन्धः - कालेन कृतः सम्बन्धः । यथा कालगन्धयोः सम्बन्धः । अयं
च सम्बन्धः सर्वाधारताप्रयोजकसम्बन्धः । अनेन सम्बन्धेन सर्वेषु जन्यभावेषु