This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
स्वकारणापेक्षया कार्यत्वम्, अपरस्य तदपेक्षया कारणत्वम् । अनयोः कार्योत्पत्ति-

निश्चयेनाविनाभावो निश्चीयते । कार्योत्पत्तिनिश्चयश्च कार्यकारणयोः प्रत्यक्षोप-

लम्भानुपलम्मपञ्चकनिबन्धनः । तथा हि कार्यस्योत्पत्तिः, प्रागनुपलम्भः, कारणोपलम्भः,

कारणोपलम्भे सत्युपलम्भः पश्चाद् उपलब्धस्य कारणानुपलम्भादनुपलम्भः इति

पञ्चात्मकः कार्यकारणभावः । अद्वैतमते एवं कार्यकारणभावो नाङ्गीक्रियते सतः

पारमार्थिकब्रह्मणः सकाशाद् व्यावहारिकसतो जगतः उत्पत्तिस्वीकाराद् अभावस्य

कारणत्वानङ्गीकारात् ।
 
१६०
 

 
कार्यान्विते शक्तिः - , कार्यान्विते शक्ति
१. प्राभाकरमीमासकाः कार्यान्वितघटादिपदे शक्तिं

स्वीकुर्वन्ति । एतन्मते कथंचिदुपस्थितपदार्थानां शाब्दबोधवारणाय तत्तद्विषयक

शाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया अन्वयांशेऽपि

शक्तिरपेक्षिता । अन्यथा तादृशसामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो

घटपदवाच्यः इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् । तत्रायं प्रकारः- प्रयोजक

वृद्धेन घट आनीतः, तत्रस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमि-

त्यवधारयति । ततश्च घटं नय गामानय इत्यवापोद्वापाभ्यां घटादिपदानां कार्यान्वित -

घटादौ शक्तिं कल्पयन्ति । २. नैयायिकास्तु पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादिवाक्ये

सिद्धार्थविषयकस्यापि शाब्दबोधोत्पत्तेर्न कार्यान्विते शक्तिस्तथा अन्वयस्य वाक्यार्थतया

भानसम्भवादन्वयांशे शक्तिर्न कल्पनीयेति मन्यन्ते । एवमेव संसर्गस्य पदसमभि-

व्याहारबलादेव शाब्दबोधे भानसम्भवात्तादृशसंसर्गांशेऽपि शक्तिर्न कल्पनीयेति

स्वीकुर्वन्ति । ३. अद्वैतवेदान्तिनस्तु वेदान्तवाक्यानां सिद्धार्थबोधकत्वान्न कार्यान्वितपदे

शक्तिरित्यभिप्रयन्ति । यथा – तस्मात्तथैवास्तु योग्येतरान्वितस्वार्थे शब्दशक्तिरियमेवास्तु

किं कार्यान्वयकल्पनेनेत्यर्थ: (सं० शा० १ ३४४ अ० टी० ) ।
 

 
काल:- , काल
१. (क) विवेकपरिपाकावस्था कांलशब्देनोच्यते (गी० २/५३ आ०

गि०) । (ख) हेतुद्वयमनुरुद्ध्य वैराग्यपरिपाकावस्था कालशब्दार्थः (तत्रैव आ० गि०) ।

(ग) अक्षय: प्रवाहरूपः कालोऽहमेव कालः कलयतामित्यत्रायुर्गणनात्मकः संवत्सर-

शताद्यायुः कालः उक्तः स च तस्मिन्नायुषि क्षीणे सति क्षीयते, अत्र तु प्रवाहात्मकोऽक्षयः

काल उच्यते इति विशेष: (गी० ११।३३ श्रीधर्याम्) । स च कालः साक्षिप्रत्ययभास्यः ।

२. परमात्मनः स्वातन्त्र्यशक्तिर्यया जगद् विवर्तते । यथा -
 
-
 
अध्याहितकलां यस्य

कालशक्तिमुपाश्रिताः जन्मादयो विकाराः षड् भावभेदस्य (वाक्यपदीये १।३) ।
 

अत्र स्वोपज्ञव्याख्यायाम् - कालाख्येन स्वातन्त्र्येण सर्वेषां हि विकाराणाम् ..
 
-
 
……...
 
.....