This page has been fully proofread once and needs a second look.

तत्कारणशरीरेऽभिमानवान् तादात्याध्यासेनाहमित्यभिमानवान् जीवः प्रज्ञा
अविनाशिस्वरूपानुभवरूपा यस्य स प्रज्ञः एव प्राज्ञः एतन्नामकः स्यादित्यर्थः
(तत्रैव रा० कृ० ) ।
 
कार्यम्, कार्य
१ (क) मायामयं व्यवहारमात्रं सदसद्विलक्षणम् । यथा - कार्यं
सव्यवहारमात्रं सदसद्विलक्षणं मायामयमित्याह (सं० शा० ३।२१८ अ० टी०) ।
(ख) सतो ब्रह्मणो विवर्तः (ग) अधिष्ठानज्ञानेन निवर्त्यम् । (घ) जगदेव कार्यम् ।
यथा - अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ
नातिव्याप्तिः (वे० प० ७ १०) । जगच्च नामरूपांशद्वयव्यवहारमात्रम् । यथा - जगति
नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्- अस्ति
भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्
(वे० प० ७५०) । सतः सज्जायते अर्थात् पारमार्थिकात् सतो व्यावहारिकं सज्जायते ।
यतो वा इमानि भूतानि तैति०३।१ इत्यादिछान्दोग्यादिषूपलभ्यत इत्यद्वैतिनः । २.
प्रागभावप्रतियोगि ( त० सं०) घटोत्पत्तेः पूर्वमिह घटो भविष्यतीति या प्रतीति-
र्जायते तत्प्रतीतिविषयीभूतो योऽभावः स एव घटप्रागभावस्तत् प्रतियोगिघटादिरूपं
कार्यम् (तत्रैव न्या० बो०) । अथवा कारणात् पश्चाद्भावि इति नैयायिकाः । ३. सतः
सदेव जायत इति सांख्याः । यथा - कार्यं प्राधानादिकं महदादि (ब्र० सू० २ अ०) ।
४. असतः कारणाद् असत् कार्य जायत इति बौद्धाः । जैनमतं नैयायिकमतमिव ।
५. यागादिकृतिसाध्यमपूर्वं कार्यमिति पूर्वमीमांसकाः । यथा - अनन्योद्देशप्रवृत्तकृतिव्याप्यं
कार्यमित्यर्थः। स्वर्गकामस्य हि साक्षात् स्वर्गं साधयितुमशक्नुवन्तो नियोगमेव
कार्यमुद्दिश्य यागकृतिः प्रवृत्ता तया व्याप्त ईप्सितरूपो नियोग एव प्रधानत्वात् कार्यमिति
भावः (सं० शा० १ । १३३ सु० एवमेव अ० टी० च) । अत्र - असद्वा इदमग्र आसीत्
(छा० २।७) । सद्वा इदमग्र आसीत् (छा० उ० २।७) इति श्रुतिः मूलम् । अत्र चत्वारः
पक्षाः सम्भवन्ति – असतः असत्, असतः सत् सतः सत् सतोऽसदिति । तत्र प्रथमो
बौद्धानाम्, द्वितीयो नैयायिकानाम्, तृतीयः सांख्यानामद्वैतिनां च । तत्र सतः सकाशात्
पारमार्थिकं सत् सांख्यानाम् । सतो ब्रह्मणः सकाशाद् व्यावहारिकं सद् अद्वैतिनामिति
विवेकः । सतोऽसदिति चतुर्थः पक्षो नोपपद्यते ।
 
कार्यकारणभावः, कार्यकारणभाव
यथा धूमवन्योः कार्यकारणभावः । कार्यं च कारणं च
तयोर्भावः कार्यकारणभावः । अयं हेतुहेतुमद्भाव इत्यप्युच्यते । अत्र एकस्य