This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
कारणम् - , कारण
१. यस्मिन् सति यद् भवति यस्मिंश्चासति यन्न भवति तत्कारणम् ।

इदं च द्विविधम् - वैदिकं लौकिकञ्च । तत्र वैदिकं केवलमन्वयमात्रावगम्यम् । लौकिकं

च अन्वयव्यतिरेकोभयगम्यम् । अभावस्य च न कारणत्वमिति अद्वैतवेदान्तिनः ।

अन्यथासिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति नैयायिकाः । एतच्च

फलोपहितत्वं स्वरूपयोग्यत्वं चेति द्विविधम् । तत्र प्रथमं यथा अनुमितिं प्रति परामर्शस्य

कारणत्वम् । फलोपहितत्वं च उपधायकत्वशब्देनापि व्यवह्रियते । द्वितीयं यथा-

अरण्यस्थदण्डादिसाधारणम् । जनकतावच्छेदकलक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् ।

पुनरपि साधारणासाधारणनिमित्तभेदेन त्रिधा इति नैयायिकाः क्वचिदुद्देश्यं प्रयोजनं

फलमपि कारणं भवति इति पूर्वमीमांसकाः । नकुलीशादिदर्शने जगत्सृष्टिसंहारा -

नुग्रहकारिकारणमीश्वरो भवति ।२. (क) कारणमीश्वरः (ब्र० सू० २ । २ ।३७ भा० ) ।

(ख) कार्याकार्यविवेकविकलस्यैव लोकनिन्दितकर्मकरणमपि तत्कारणम् (तत्रैव क०

त० प० ) ।
 
१५८
 
1
 
-
 

 
कारणशरीरम् - , कारणशरीर
ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् । यथा -

इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । यथा वृक्षाणां

समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय

इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः

अजामेकामित्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं

चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर

इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्ववित् इति श्रुतेः ।

ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् ।.... एतेषु कोशेषु मध्ये विज्ञानमयो

ज्ञानशक्तिमान् कर्तृरूपः । मनोमयः इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान्

कार्यरूपः। योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत्

सूक्ष्मशरीरमित्युच्यते । अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलवद्वा

समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं

चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुप-

हितत्वाच्च । अस्यैषा समष्टिः स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरम् ।
 
-
 

यथा च- अविद्यावशगस्त्वन्यस्तद्वैचित्यादनेकधा । सा कारणशरीरं

स्याप्राज्ञस्तत्रभिमानवान् (प० द० १ ।१७) । तत्सर्वं क्रमेण व्युत्पादयति- सा कारण-

शरीरमित्यादिना । साविद्या कारणशरीरं स्थूलसूक्ष्मशरीरादिकारणभूतं प्रकृत्यवस्था-

विशेषत्वात् कारणमुपचाराच्छीर्यते तत्त्वज्ञानाद् विनश्यति चेति शरीरं स्यात् ।
 
-