2023-03-12 05:00:47 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
१५७
विषयास्तान् कामयितुं शीलं यस्य स कामकामी नैव प्राप्नुवन्तीत्यर्थः (गी० २।७०
भाष्यो०) । (ग) कर्महेतुः
कर्महेतुः कामः प्रवर्तकत्वात् (तै० शि० अनु०
१ शा० भा० ) ।
=
-
कामकारः – स्वैरवृत्तिः । यथा - अयुक्तस्तद्विपरीतः कामकारेण स्वैरवृत्त्या
फले सक्तः सन् नितरां वध्यते (गी० ५/१२ नी० क०) । यथा च - यस्तु
पुनरयुक्तोऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन
कामकारेण (तत्रैव शा० भा० ) ।
काम्यत्वम् – अभिलाषविषयत्वम्, आरब्धकर्मोपत्तिकामनाधीनकामना विषयत्वं
वा । यथा भोजनादेर्ज्योतिष्टोमादेश्च काम्यत्वम् । यथा वा सुखं जगतामेकं काम्यं
धर्मेण जन्यते ।
कारः - यथा - करणं कारः यस्तु पुनरयुक्तः ईश्वरायैतानि कर्माणि न
मम फलायेत्यभिप्रायशून्यः स कामकारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति
फले सक्तो निबध्यते कर्मभिः नितरां संसारबन्धं प्राप्नोति (गी० ५/१२ शा० भा०) ।
.…..
कारकः – (क) करोतीति कारकः क्रियाजनकत्वम्, साक्षात् क्रियान्वयित्वं वा
कारकत्वम् इति वैयाकरणाः । (ख) यद्धातूपस्थाप्ययादृशार्थेऽन्वयप्रकारीभूय भासते
यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकमिति नैयायिकाः । यथा वृक्षात्
पतति, व्याघ्राद् विभेति, ब्राह्मणाय गां ददाति, पुत्राय क्रुध्यति, दात्रेण छिनत्ति, घटत्वेन
जानाति, स्थाल्यां पचति, शुक्तौ भासते, ग्रामं गच्छति, स घटं पश्यति, चैत्रेण पच्यते,
घटेन भूयत इत्यादौ पत्प्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थापितो विभागादिः
प्रकारीभूय भासत इति तत्तद्धातूपस्थापिततत्तत् क्रियायां विभागादिकं प्रकृते कारणम् ।
अधिकं तु कारके (१।४।२३) इति पाणिनिसूत्रस्य महाभाष्ये द्रष्टव्यम् । (ग) कर्ता = स
च सर्वक्रियाकलापकर्त्री बुद्धिरेव । अभिमानित्वेन पुरुषः स्वस्मिन् कर्तृत्वं मन्यते । यथा
गीतायां प्रकृतेः क्रियमाणानि गुणैः कर्माण्यशेषतः । अहंकारविमूढात्मा कर्ताहमिति
मन्यते (गी० ३।२७) । इति सांख्याः । (घ) शुद्धं चैतन्यं कर्तृत्वादिरहितं किन्तु
अज्ञानोपहितं चैतन्यं जीवः सन् स्वस्मिन् लोकव्यवहारव्यापारकर्तृत्वं मन्यते । तेन च
शुभाशुभकर्मकर्तृत्वद्वारा लोके संसरति । ज्ञाने जाते कर्तृत्वाभिमानरहितः संसरणान्मुच्यत
इति अद्वैतवेदान्तिनः ।